Ramayana Half-Verse Concordance 7.77, 7.86

इन्द्राश्व-मेधः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

44 aligned line rows across 7 source streams.

Columns:
gor-kn 42 lines gor-hi 42 lines crit 38 lines gr 43 lines dr-mula 42 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aತದಾ ವೃತ್ರವಧಂ ಸರ್ವಮಖಿಲೇನ ಸ ಲಕ್ಷ್ಮಣಃ ।7.86.1aतदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः ।7.77.1aतथा वृत्रवधं सर्वमखिलेन स लक्ष्मणः ।7.86.1aतदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः ।7.86.1aतदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः।
2#1bಕಥಯಿತ್ವಾ ನರಶ್ರೇಷ್ಠಃ ಕಥಾಶೇಷಂ ಪ್ರಚಕ್ರಮೇ ॥7.86.1bकथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ॥ १ ॥7.77.1bकथयित्वा नरश्रेष्ठः कथाशेषमुपाक्रमत् ॥7.77.1॥7.86.1bकथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ॥ १ ॥7.86.1bकथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ॥ 7.86.1 ॥
3#2aತತೋ ಹತೇ ಮಹಾವೀರ್ಯೇ ವೃತ್ರೇ ದೇವಭಯಂಕರೇ ।7.86.2aततो हते महावीर्ये वृत्रे देवभयङ्करे ।7.77.2aततो हते महावीर्ये वृत्रे देवभयंकरे ।7.86.2aततो हते महावीर्ये वृत्रे देवभयंकरे ।7.86.2aततो हते महावीर्ये वृत्रे देवभयङ्करे।
4#2bಬ್ರಹ್ಮಹತ್ಯಾವೃತಃ ಶಕ್ರಃ ಸಂಜ್ಞಾಂ ಲೇಭೇನ ವೃತ್ರಹಾ ॥7.86.2bब्रह्महत्यावृतः शक्रः सञ्ज्ञां लेभे न वृत्रहा ॥ २ ॥7.77.2bब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा ॥7.77.2॥7.86.2bब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा ॥ २ ॥7.86.2bब्रह्महत्यावृतः शक्रः सञ्ज्ञां लेभे न वृत्रहा ॥ 7.86.2 ॥
5#3aಸೋಂತಮಾಶ್ರಿತ್ಯ ಲೋಕಾನಾಂ ನಷ್ಟಸಂಜ್ಞೋ ವಿಚೇತನಃ ।7.86.3aसोऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः ।7.77.3aसोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः ।7.86.3aसोन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः ।7.86.3aसोऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः।
6#3bಕಾಲಂ ತತ್ರಾವಸತ್ಕಂಚಿದ್ವೇಷ್ಟಮಾನ ಇವೋರಗಃ ॥7.86.3bकालं तत्रावसत् कञ्चिद् वेष्टमान इवोरगः ॥ ३ ॥7.77.3bकालं तत्रावसत्कंचिद्वेष्टमानो यथोरगः ॥7.77.3॥7.86.3bकालं तत्रावसत्कंचिद्वेष्टमान इवोरगः ॥ ३ ॥7.86.3bकालं तत्रावसत्कञ्चिद्वेष्टमान इवोरगः ॥ 7.86.3 ॥
7#4aಅಥ ನಷ್ಟೇ ಸಹಸ್ರಾಕ್ಷೇ ಉದ್ವಿಗ್ನಮಭವಜ್ಜಗತ್ ।7.86.4aअथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् ।7.77.4aअथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् ।7.86.4aअथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् ।7.86.4aअथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत्।
8#4bಭೂಮಿಶ್ಚ ಧ್ವಸ್ತಸಂಕಾಶಾ ನಿಃಸ್ನೇಹಾ ಶುಷ್ಕಕಾನನಾ ॥7.86.4bभूमिश्च ध्वस्तसङ्काशा निःस्नेहा शुष्ककानना ॥ ४ ॥7.77.4bभूमिश्च ध्वस्तसंकाशा निःस्नेहा शुष्ककानना ॥7.77.4॥7.86.4bभूमिश्च ध्वस्तसंकाशा निस्नेहा शुष्ककानना ॥ ४ ॥7.86.4bभूमिश्च ध्वस्तसङ्काशा निःस्नेहा शुष्ककानना ॥ 7.86.4 ॥
9#5aನಿಃಸ್ರೋತಸಸ್ತೇ ಸರ್ವೇತು ಹ್ರದಾಶ್ಚ ಸರಿತಸ್ತಥಾ ।7.86.5aनिःस्रोतसस्ते सर्वे तु ह्रदाश्च सरितस्तथा ।7.77.5aनिःस्रोतसश्चाम्बुवाहा ह्रदाश्च सरितस्तथा ।7.86.5aनिःस्रोतसश्च ते सर्वे ह्रदाश्च सरितस्तथा ।7.86.5aनिःस्रोतसश्च ते सर्वे तु ह्रदाश्च सरितस्तथा।
10#5bಸಂಕ್ಷೋಭಶ್ಚೈವ ಸತ್ತ್ವಾನಾಮನಾವೃಷ್ಟಿ ಕೃತೋಽಭವತ್ ॥7.86.5bसङ्क्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् ॥ ५ ॥7.77.5bसंक्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् ॥7.77.5॥7.86.5bसंक्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् ॥ ५ ॥7.86.5bसङ्क्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् ॥ 7.86.5 ॥
11#6aಕ್ಷೀಯಮಾಣೇ ತು ಲೋಕೇಽಸ್ಮಿನ್ ಸಂಭ್ರಾಂತಮನಸಃ ಸುರಾಃ ।7.86.6aक्षीयमाणे तु लोकेऽस्मिन् सम्भ्रान्तमनसः सुराः ।7.77.6aक्षीयमाणे तु लोकेऽस्मिन्संभ्रान्तमनसः सुराः ।7.86.6aक्षीयमाणे तु लोकेऽस्मिन्त्संभ्रान्तमनसः सुराः ।7.86.6aक्षीयमाणे तु लोकेऽस्मिन्सम्भ्रान्तमनसः सुराः।
12#6bಯದುಕ್ತಂ ವಿಷ್ಣುನಾ ಪೂರ್ವಂ ತಂ ಯಜ್ಞಂ ಸಮುಪಾನಯನ್ ॥7.86.6bयदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ॥ ६ ॥7.77.6bयदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ॥7.77.6॥7.86.6bयदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ॥ ६ ॥7.86.6bयदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ॥ 7.86.6 ॥
13#7aತತಃ ಸರ್ವೇ ಸುರಗಣಾಃ ಸೋಪಾಧ್ಯಾಯಾಃ ಸಹರ್ಷಿಭಿಃ ।7.86.7aततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ।7.77.7aततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ।7.86.7aततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ।7.86.7aततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः।
14#7bತಂ ದೇಶಂ ಸಮುಪಾಜಗ್ಮುರ್ಯತ್ರೇಂದ್ರೋ ಭಯಮೋಹಿತಃ ॥7.86.7bतं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ॥ ७ ॥7.77.7bतं देशं सहिता जग्मुर्यत्रेन्द्रो भयमोहितः ॥7.77.7॥7.86.7bतं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ॥ ७ ॥7.86.7bतं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ॥ 7.86.7 ॥
15#8aತೇ ತು ದೃಷ್ಟ್ವಾ ಸಹಸ್ರಾಕ್ಷಮಾವೃತಂ ಬ್ರಹ್ಮಹತ್ಯಯಾ ।7.86.8aते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया ।7.77.8aते तु दृष्ट्वा सहस्राक्षं मोहितं ब्रह्महत्यया ।7.86.8aते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया ।7.86.8aते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया।
16#8bತಂ ಪುರಸ್ಕೃತ್ಯ ದೇವೇಶಮಶ್ವಮೇಧಂ ಪ್ರಚಕ್ರಿರೇ ॥7.86.8bतं पुरस्कृत्य देवेशमश्वमेधं प्रचक्रिरे ॥ ८ ॥7.77.8bतं पुरस्कृत्य देवेशमश्वमेधं प्रचक्रिरे ॥7.77.8॥7.86.8bतं पुरस्कृत्य देवेशमश्वमेधमुपाक्रमन् ॥ ८ ॥7.86.8bतं पुरस्कृत्य देवेशमश्वमेधमुपाक्रमन् ॥ 7.86.8 ॥
17#9aತತೋಽಶ್ವಮೇಧಃ ಸುಮಹಾನ್ಮಹೇಂದ್ರಸ್ಯ ಮಹಾತ್ಮನಃ ।7.86.9aततोऽश्वमेधः सुमहान् महेन्द्रस्य महात्मनः ।7.77.9aततोऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः ।7.86.9aततोश्वमेधः सुमहान्महेन्द्रस महात्मनः ।7.86.9aततोऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः।
18#9bವವೃಧೇ ಬ್ರಹ್ಮಹತ್ಯಾಯಾಃ ಪಾವನಾರ್ಥಂ ನರೇಶ್ವರ ॥7.86.9bववृते ब्रह्महत्यायाः पावनार्थं नरेश्वर ॥ ९ ॥7.77.9bववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर ॥7.77.9॥7.86.9bववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर ॥ ९ ॥7.86.9bववृधे ब्रह्महत्ययाः पावनार्थं नरेश्वर ॥ 7.86.9 ॥
19#10aತತೋ ಯಜ್ಞೇ ಸಮಾಪ್ತೇ ತು ಬ್ರಹ್ಮಹತ್ಯಾಮಹಾತ್ಮನಃ ।7.86.10aततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः ।7.77.10aततो यज्ञसमाप्तौ तु ब्रह्महत्या महात्मनः ।7.86.10aततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः ।7.86.10aततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः।
20#10bಅಭಿಗಮ್ಯಾಬ್ರವೀದ್ವಾಕ್ಯಂಕ್ವ ಮೇ ಸ್ಥಾನಂ ವಿಧಾಸ್ಯಥ ॥7.86.10bअभिगम्याब्रवीद् वाक्यं क्व मे स्थानं विधास्यथ ॥ १० ॥7.77.10bअभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ॥7.77.10॥7.86.10bअभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ॥ १० ॥7.86.10bअभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ॥ 7.86.10 ॥
21#11aತೇ ತಾಮೂಚುಸ್ತತೋ ದೇವಾಸ್ತುಷ್ಟಾಃ ಪ್ರೀತಿಸಮನ್ವಿತಾಃ ।7.86.11aते तामूचुस्ततो देवास्तुष्टाः प्रीतिसमन्विताः ।7.77.11aते तामूचुस्ततो देवास्तुष्टाः प्रीतिसमन्विताः ।7.86.11aते तामूचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः ।7.86.11aते तामूचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः।
22#11bಚತುರ್ಧಾ ವಿಭಜಾತ್ಮಾನಮಾತ್ಮನೈವ ದುರಾಸದೇ ॥7.86.11bचतुर्धा विभजात्मानमात्मनैव दुरासदे ॥ ११ ॥7.77.11bचतुर्धा विभजात्मानमात्मनैव दुरासदे ॥7.77.11॥7.86.11bचतुर्धा विभजात्मानमात्मनैव दुरासदे ॥ ११ ॥7.86.11bचतुर्धा विभजात्मानमात्मनैव दुरासदे ॥ 7.86.11 ॥
23#12aದೇವಾನಾಂ ಭಾಷಿತಂ ಶ್ರುತ್ವಾ ಬ್ರಹ್ಮಹತ್ಯಾ ಮಹಾತ್ಮನಾಮ್ ।7.86.12aदेवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् ।7.77.12aदेवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् ।7.86.12aदेवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् ।7.86.12aदेवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम्।
24#12bಸಂದಧೌ ಸ್ಥಾನಮನ್ಯತ್ರ ವರಯಾಮಾಸ ದುರ್ವಸಾ ॥7.86.12bसन्दधौ स्थानमन्यत्र वरयामास दुर्वसा ॥ १२ ॥7.77.12bसंनिधौ स्थानमन्यत्र वरयामास दुर्वसा ॥7.77.12॥7.86.12bसन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ॥ १२ ॥7.86.12bसन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ॥ 7.86.12 ॥
25#13aಏಕೇನಾಂಶೇನ ವತ್ಸ್ಯಾಮಿ ಪೂರ್ಣೋದಾಸು ನದೀಷು ವೈ ।7.86.13aएकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै ।7.77.13aएकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै ।7.86.13aएकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै ।7.86.13aएकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै।
267.77.13bद्वितीयेन तु वृक्षेषु सत्यमेतद्ब्रवीमि वः ॥7.77.13॥
27#13bಚತುರೋ ವಾರ್ಷಿಕಾನ್ಮಾಸಾನ್ದರ್ಪಘ್ನೀ ಕಾಮಚಾರಿಣೀ ॥7.86.13bचतुरो वार्षिकान् मासान् दर्पघ्नी कामचारिणी ॥ १३ ॥7.86.13bचतुरो वार्षिकान्मासान्दर्पघ्नी कामवारिणी ॥ १३ ॥7.86.13bचतुरो वार्षिकान्मासान्दर्पघ्नी कामवारिणी ॥ 7.86.13 ॥
28#14aಭೂಮ್ಯಾಮಹಂ ಸರ್ವಕಾಲಮೇಕೇನಾಂಶೇನ ಸರ್ವದಾ ।7.86.14aभूम्यामहं सर्वकालमेकेनांशेन सर्वदा ।7.86.14aभूम्यामहं सर्वकालमेकेनांशेन दुर्वसा ।7.86.14aभूम्यामहं सर्वकालमेकेनांशेन सर्वदा।
29#14bವಸಿಷ್ಯಾಮಿ ನ ಸಂದೇಹಃ ಸತ್ಯೇನೈತದ್ಬ್ರವೀಮಿ ವಃ ॥7.86.14bवसिष्यामि न सन्देहः सत्येनैतद् ब्रवीमि वः ॥ १४ ॥7.86.14bवसिष्यामि न सन्देहः सत्येनैतद्ब्रवीमि वः ॥ १४ ॥7.86.14bवसिष्यामि न सन्देहः सत्येनैतद्ब्रवीमि वः ॥ 7.86.14 ॥
30#15aಯೋಯಮಂಶಸ್ತೃತೀಯೋ ಮೇ ಸ್ತ್ರೀಷು ಯೌವನಶಾಲಿಷು ।7.86.15aयोऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु ।7.77.14aयोऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु ।7.86.15aयोयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु ।7.86.15aयोऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु।
31#15bತ್ರಿರಾತ್ರಂ ದರ್ಪಪೂರ್ಣಾಸುವಸಿಷ್ಯೇದರ್ಪಘಾತಿನೀ ॥7.86.15bत्रिरात्रं दर्पपूर्णासु वसिष्ये दर्पघातिनी ॥ १५ ॥7.77.14bत्रिरात्रं दर्पपर्णासु वसिष्ये दर्पघातिनी ॥7.77.14॥7.86.15bत्रिरात्रं दर्पपूर्णासु वसिष्ये दर्पघातिनी ॥ १५ ॥7.86.15bत्रिरात्रं दर्पपूर्णासु वशिष्ये दर्पघातिनी ॥ 7.86.15 ॥
32#16aಹಂತಾರೋ ಬ್ರಾಹ್ಮಣಾನ್ಯೇ ತುಮೃಷಾಪೂರ್ವಮದೂಷಕಾನ್ ।7.86.16aहन्तारो ब्राह्मणान् ये तु मृषापूर्वमदूषकान् ।7.77.15aहन्तारो ब्राह्मणान्ये तु प्रेक्षापूर्वमदूषकान् ।7.86.16aहन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान् ।7.86.16aहन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान्।
33#16bತಾಂಶ್ಚತುರ್ಥೇನ ಭಾಗೇನ ಸಂಶ್ರಯಿಷ್ಯೇ ಸುರರ್ಷಭಾಃ ॥7.86.16bतांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥ १६ ॥7.77.15bतांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥7.77.15॥7.86.16bतांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥ १६ ॥7.86.16bतांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥ 7.86.16 ॥
34#17aಪ್ರತ್ಯೂಚುಸ್ತಾಂ ತತೋ ದೇವಾ ಯಥಾ ವದಸಿ ದುರ್ವಸೇ ।7.86.17aप्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे ।7.77.16aप्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे ।7.86.17aप्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे ।7.86.17aप्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे।
35#17bತಥಾ ಭವತು ತತ್ಸರ್ವಂ ಸಾಧಯಸ್ವ ಯದೀಪ್ಸಿತಮ್ ॥7.86.17bतथा भवतु तत् सर्वं साधयस्व यदीप्सितम् ॥ १७ ॥7.77.16bतथा भवतु तत्सर्वं साधयस्व यथेप्सितम् ॥7.77.16॥7.86.17bतथा भवतु तत्सर्वं साधयस्व यदीप्सितम् ॥ १७ ॥7.86.17bतथा भवतु तत्सर्वं साधयस्व यदीप्सितम् ॥ 7.86.17 ॥
36#18aತತಃಪ್ರೀತ್ಯಾನ್ವಿತಾ ದೇವಾಃ ಸಹಸ್ರಾಕ್ಷಂ ವವಂದಿರೇ ।7.86.18aततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे ।7.77.17aततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे ।7.86.18aततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे ।7.86.18aततः प्रीत्याऽन्विता देवाः सहस्राक्षं ववन्दिरे।
37#18bವಿಜ್ವರಃ ಪೂತಪಾಪ್ಮಾ ಚ ವಾಸವಃ ಸಮಪದ್ಯತ ॥7.86.18bविज्वरः पूतपाप्मा च वासवः समपद्यत ॥ १८ ॥7.77.17bविज्वरः पूतपाप्मा च वासवः समपद्यत ॥7.77.17॥7.86.18bविज्वरः स च पूतात्मा चासवः समपद्यत ॥ १८ ॥7.86.18bविज्वरः स च पूतात्मा वासवः समपद्यत ॥ 7.86.18 ॥
38#19aಪ್ರಶಾಂತಂ ಚ ಜಗತ್ಸರ್ವಂ ಸಹಸ್ರಾಕ್ಷೇ ಪ್ರತಿಷ್ಠಿತೇ ।7.86.19aप्रशान्तं च जगत् सर्वं सहस्राक्षे प्रतिष्ठिते ।7.77.18aप्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठते ।7.86.19aप्रशान्तं च जगत्सर्व सहस्राक्षे प्रतिष्ठिते ।7.86.19aप्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते।
39#19bಯಜ್ಞಂ ಚಾದ್ಭುತಸಂಕಾಶಂ ತದಾ ಶಕ್ರೋಽಭ್ಯ ಪೂಜಯತ್ ॥7.86.19bयज्ञं चाद्भुतसङ्काशं तदा शक्रोऽभ्यपूजयत् ॥ १९ ॥7.77.18bयज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत् ॥7.77.18॥7.86.19bयज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत् ॥ १९ ॥7.86.19bयज्ञं चाद्भुतसङ्काशं तदा शक्रोऽभ्यपूजयत् ॥ 7.86.19 ॥
40#20aಈದೃಶೋಹ್ಯಶ್ವಮೇಧಸ್ಯ ಪ್ರಭಾವೋ ರಘುನಂದನ ।7.86.20aईदृशो ह्यश्वमेधस्य प्रभावो रघुनन्दन ।7.77.19aईदृशो ह्यश्वमेधस्य प्रभावो रघुनन्दन ।7.86.20aईदृशो ह्यश्वमेधस्य प्रभावो रघुनन्दन ।7.86.20aईदृशो ह्यश्वमेधस्य प्रसादो रघुनन्दन।
41#20bಯಜಸ್ವ ಸುಮಹಾಭಾಗ ಹಯಮೇಧೇನ ಪಾರ್ಥಿವ ॥7.86.20bयजस्व सुमहाभाग हयमेधेन पार्थिव ॥ २० ॥7.77.19bयजस्व सुमहाभाग हयमेधेन पार्थिव ॥7.77.19॥7.86.20bयजस्व सुमहाभाग हयमेधेन पार्थिव ॥ २० ॥7.86.20bयजस्व सुमहाभाग हयमेधेन पार्थिव ॥ 7.86.20 ॥
42#21aಇತಿ ಲಕ್ಷ್ಮಣವಾಕ್ಯಮುತ್ತಮಂ
ನೃಪತಿರತೀವಮನೋಹರಂಮಹಾತ್ಮಾ ।
7.86.21aइति लक्ष्मणवाक्यमुत्तमं
नृपतिरतीव मनोहरं महात्मा ।
7.86.21aइति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा ।7.86.21aइति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा।
43#21bಪರಿತೋಷಮವಾಪ ಹೃಷ್ಟಚೇತಾಃ
ಸ ನಿಶಮ್ಯೇಂದ್ರಸಮಾನವಿಕ್ರಮೌಜಾಃ ॥
7.86.21bपरितोषमवाप हृष्टचेताः
स निशम्येन्द्रसमानविक्रमौजाः ॥ २१ ॥
7.86.21bपरितोषमवाप हृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः ॥ २१ ॥7.86.21bपरितोषमवाप हृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः ॥ 7.86.21 ॥
447.86.86इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे उत्तरकाण्डव्याख्याने षडशीतितमः सर्गः ॥ ८६ ॥