इल-स्त्री-भावः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
62 aligned line rows across 7 source streams.
gor-kn 59 lines
gor-hi 59 lines
crit 58 lines
gr 60 lines
dr-mula 58 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತಚ್ಛ್ರುತ್ವಾಲಕ್ಷ್ಮಣೇನೋಕ್ತಂ ವಾಕ್ಯಂ ವಾಕ್ಯವಿಶಾರದಃ । | 7.87.1aतच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः । | 7.78.1aतच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः । | 7.87.1aतच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः । | 7.87.1aतच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः। | ||
| 2 | #1bಪ್ರತ್ಯುವಾಚ ಮಹಾತೇಜಾಃ ಪ್ರಹಸನ್ರಾಘವೋ ವಚಃ ॥ | 7.87.1bप्रत्युवाच महातेजाः प्रहसन् राघवो वचः ॥ १ ॥ | 7.78.1bप्रत्युवाच महातेजाः प्रहसन्राघवो वचः ॥7.78.1॥ | 7.87.1bप्रत्युवाच महातेजाः प्रहसन्राघवो वचः ॥ १ ॥ | 7.87.1bप्रत्युवाच महातेजाः प्रहसन्राघवो वचः ॥ 7.87.1 ॥ | ||
| 3 | #2aಏವಮೇವ ನರಶ್ರೇಷ್ಠ ಯಥಾ ವದಸಿ ಲಕ್ಷ್ಮಣ । | 7.87.2aएवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण । | 7.78.2aएवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण । | 7.87.2aएवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण । | 7.87.2aएवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण। | ||
| 4 | #2bವೃತ್ರಘಾತಮಶೇಷೇಣ ವಾಜಿಮೇಧಲಂ ಚ ಯತ್ ॥ | 7.87.2bवृत्रघातमशेषेण वाजिमेधफलं च यत् ॥ २ ॥ | 7.78.2bवृत्रघातमशेषेण वाजिमेधफलं च यत् ॥7.78.2॥ | 7.87.2bवृत्रघातमशेषेण वाजिमेधफलं च यत् ॥ २ ॥ | 7.87.2bवृत्रघातमशेषेण वाजिमेधफलं च यत् ॥ 7.87.2 ॥ | ||
| 5 | #3aಶ್ರೂಯತೇ ಹಿ ಪುರಾ ಸೌಮ್ಯ ಕರ್ದಮಸ್ಯ ಪ್ರಜಾಪತೇಃ । | 7.87.3aश्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः । | 7.78.3aश्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः । | 7.87.3aश्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः । | 7.87.3aश्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः। | ||
| 6 | #3bಪುತ್ರೋ ಬಾಹ್ಲೀಶ್ವರಃ ಶ್ರೀಮಾನಿಲೋ ನಾಮ ಸುಧಾರ್ಮಿಕಃ ॥ | 7.87.3bपुत्रो बाह्लीश्वरः श्रीमानिलो नाम सुधार्मिकः ॥ ३ ॥ | 7.78.3bपुत्रो बाह्लीश्वरः श्रीमानिलो नाम सुधार्मिकः ॥7.78.3॥ | 7.87.3bपुत्रो बाह्लीश्वरः श्रीमानिलो नाम महायशाः ॥ ३ ॥ | 7.87.3bपुत्रो बाह्लीश्वरः श्रीमानिलो नाम महाशयाः ॥ 7.87.3 ॥ | ||
| 7 | #4aಸ ರಾಜಾ ಪೃಥಿವೀಂ ಸರ್ವಾಂ ವಶೇ ಕೃತ್ವಾ ಮಹಾಯಶಾಃ । | 7.87.4aस राजा पृथिवीं सर्वां वशे कृत्वा महायशाः । | 7.78.4aस राजा पृथिवीं सर्वां वशे कृत्वा महायशाः । | 7.87.4aस राजा पृथिवीं सर्वां वशे कृत्वा सुधार्मिकः । | 7.87.4aस राजा पृथिवीं सर्वां वशे कृत्वा सुधार्मिकः। | ||
| 8 | #4bರಾಜ್ಯಂ ಚೈವನರವ್ಯಾಘ್ರ ಪುತ್ರವತ್ಪರ್ಯಪಾಲಯತ್ ॥ | 7.87.4bराज्यं चैव नरव्याघ्र पुत्रवत् पर्यपालयत् ॥ ४ ॥ | 7.78.4bराज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ॥7.78.4॥ | 7.87.4bराज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ॥ ४ ॥ | 7.87.4bराज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ॥ 7.87.4 ॥ | ||
| 9 | #5aಸುರೈಶ್ಚ ಪರಮೋದಾರೈರ್ದೈತೇಯೈಶ್ಚ ಮಹಾಧನೈಃ । | 7.87.5aसुरैश्च परमोदारैर्दैतेयैश्च महाधनैः । | 7.78.5aसुरैश्च परमोदारैर्दैतेयैश्च महासुरैः । | 7.87.5aसुरैश्च परमोदारैर्दैतेयैश्च महाधनैः । | 7.87.5aसुरैश्च परमोदारैर्दैतेयैश्च महाधनैः। | ||
| 10 | #5bನಾಗರಾಕ್ಷಸಗಂಧರ್ವೈರ್ಯಕ್ಷೈಶ್ಚ ಸುಮಹಾತ್ಮಭಿಃ ॥ | 7.87.5bनागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ॥ ५ ॥ | 7.78.5bनागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ॥7.78.5॥ | 7.87.5bनागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः । | 7.87.5bनागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ॥ 7.87.5 ॥ | ||
| 11 | #6aಪೂಜ್ಯತೇ ನಿತ್ಯಶಃ ಸೌಮ್ಯಭಯಾರ್ತೈ ರಘುನಂದನ । | 7.87.6aपूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन । | 7.78.6aपूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन । | 7.87.5cपूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन ॥ ५ ॥ | 7.87.6aपूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन। | ||
| 12 | #6bಅಬಿಭ್ಯಂಶ್ಚ ತ್ರಯೋ ಲೋಕಾಃ ಸರೋಷಸ್ಯ ಮಹಾತ್ಮನಃ ॥ | 7.87.6bअबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ॥ ६ ॥ | 7.78.6bअबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ॥7.78.6॥ | 7.87.6अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ॥ ६ ॥ | 7.87.6bअबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ॥ 7.87.6 ॥ | ||
| 13 | #7aಸ ರಾಜಾ ತಾದೃಶೋಽಪ್ಯಾಸೀದ್ಧರ್ಮೇ ವೀರ್ಯೇ ಚ ನಿಷ್ಠಿತಃ । | 7.87.7aस राजा तादृशोऽप्यासीद् धर्मे वीर्ये च निष्ठितः । | 7.78.7aस राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः । | 7.87.7aस राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः । | 7.87.7aस राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः। | ||
| 14 | #7bಬುದ್ಧ್ಯಾ ಚ ಪರಮೋದಾರೋ ಬಾಹ್ಲೀಕೇಶೋ ಮಹಾಯಶಾಃ ॥ | 7.87.7bबुद्ध्या च परमोदारो बाह्लीकेशो महायशाः ॥ ७ ॥ | 7.78.7bबुद्ध्या च परमोदारो बाह्लीकानां महायशाः ॥7.78.7॥ | 7.87.7bबुद्ध्या च परमोदारो बाह्लिकेशो महायशाः ॥ ७ ॥ | 7.87.7bबुद्ध्या च परमोदारो बाह्लीकेशो महायशाः ॥ 7.87.7 ॥ | ||
| 15 | #8aಸ ಪ್ರಚಕ್ರೇ ಮಹಾಬಾಹುರ್ಮೃಗಯಾಂ ರುಚಿರೇ ವನೇ । | 7.87.8aस प्रचक्रे महाबाहुर्मृगयां रुचिरे वने । | 7.78.8aस प्रचक्रे महाबाहुर्मृगयां रुचिरे वने । | 7.87.8aस प्रचक्रे महाबाहुर्मृगयां रुचिरे वने । | 7.87.8aस प्रचक्रे महाबाहुर्मृगयां रुचिरे वने। | ||
| 16 | #8bಚೈತ್ರೇ ಮನೋರಮೇ ಮಾಸೇ ಸಭೃತ್ಯಬಲವಾಹನಃ ॥ | 7.87.8bचैत्रे मनोरमे मासे सभृत्यबलवाहनः ॥ ८ ॥ | 7.78.8bचैत्रे मनोरमे मासि सभृत्यबलवाहनः ॥7.78.8॥ | 7.87.8bचैत्रे मनोरमे मासि सभृत्यबलवाहनः ॥ ८ ॥ | 7.87.8bचैत्रे मनोरमे मासि सभृत्यबलवाहनः ॥ 7.87.8 ॥ | ||
| 17 | #9aಪ್ರಜಘ್ನೇ ಚ ನೃಪೋಽರಣ್ಯೇಮೃಗಾನ್ ಶತಸಹಸ್ರಶಃ । | 7.87.9aप्रजघ्ने स नृपोऽरण्ये मृगान् शतसहस्रशः । | 7.78.9aप्रजघ्ने स नृपोऽरण्ये मृगाञ्शतसहस्रशः । | 7.87.9aप्रजघ्ने च नृपोरण्ये मृगाञ्शतसहस्रशः । | 7.87.9aप्रजघ्ने च नृपोऽरण्ये मृगाञ्छतसहस्रशः। | ||
| 18 | #9bಹತ್ವೈವ ತೃಪ್ತಿರ್ನಾಭೂಚ್ಚ ರಾಜ್ಞಸ್ತಸ್ಯ ಮಹಾತ್ಮನಃ ॥ | 7.87.9bहत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ॥ ९ ॥ | 7.78.9bहत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ॥7.78.9॥ | 7.87.9bहत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ॥ ९ ॥ | 7.87.9bहत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ॥ 7.87.9 ॥ | ||
| 19 | #10aನಾನಾಮೃಗಾಣಾಮಯುತಂ ವಧ್ಯಮಾನಂಮಹಾತ್ಮನಾ । | 7.87.10aनानामृगाणामयुतं वध्यमानं महात्मना । | 7.78.10aनानामृगाणामयुतं वध्यमानं महात्मना । | 7.87.10aनानामृगाणामयुतं वध्यमानं महात्मना । | 7.87.10aनानामृगाणामयुतं वध्यमानं महात्मना। | ||
| 20 | #10bಯತ್ರ ಜಾತೋ ಮಹಾಸೇನಸ್ತಂ ದೇಶಮುಪಚಕ್ರಮೇ ॥ | 7.87.10bयत्र जातो महासेनस्तं देशमुपचक्रमे ॥ १० ॥ | 7.78.10bयत्र जातो महासेनस्तं देशमुपचक्रमे ॥7.78.10॥ | 7.87.10bयत्र जातो महासेनस्तं देशमुपचक्रमे ॥ १० ॥ | 7.87.10bयत्र जातो माहासेनस्तं देशमुपचक्रमे ॥ 7.87.10 ॥ | ||
| 21 | #11aತಸ್ಮಿನ್ಪ್ರದೇಶೇ ದೇವೇಶಃ ಶೈಲರಾಜಸುತಾಂ ಹರಃ । | 7.87.11aतस्मिन् प्रदेशे देवेशः शैलराजसुतां हरः । | 7.78.11aतस्मिंस्तु देवदेवेशः शैलराजसुतां हरः । | 7.87.11aतस्मिन्प्रदेशे देवेशः शैलराजसुतां हरः । | 7.87.11aतस्मिन्प्रदेशे देवेश शैलराजसुतां हरः। | ||
| 22 | #11bರಮಯಾಮಾಸ ದುರ್ಧರ್ಷಃ ಸರ್ವೈರನುಚರೈಃ ಸಹ ॥ | 7.87.11bरमयामास दुर्धर्षः सर्वैरनुचरैः सह ॥ ११ ॥ | 7.78.11bरमयामास दुर्धर्षैः सर्वैरनुचरैः सह ॥7.78.11॥ | 7.87.11bरमयामास दुर्धर्षः सर्वैरनुचरैः सह ॥ ११ ॥ | 7.87.11bरमयामास दुर्धर्षः सर्वैरनुचरैः सह ॥ 7.87.11 ॥ | ||
| 23 | #12aಕೃತ್ವಾ ಸ್ತ್ರೀರೂಪಮಾತ್ಮಾನಮುಮೇಶೋಗೋಪತಿಧ್ವಜಃ । | 7.87.12aकृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः । | 7.78.12aकृत्वा स्त्रीभूतमात्मानमुमेशो गोपतिध्वजः । | 7.87.12aकृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः । | 7.87.12aकृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः। | ||
| 24 | #12bದೇವ್ಯಾಃ ಪ್ರಿಯಚಿಕೀರ್ಷುಃ ಸಂಸ್ತಸ್ಮಿನ್ಪರ್ವತನಿರ್ಝರೇ ॥ | 7.87.12bदेव्याः प्रियचिकीर्षुः संस्तस्मिन् पर्वतनिर्झरे ॥ १२ ॥ | 7.78.12bदेव्याः प्रियचिकीर्षुः स तस्मिन्पर्वतनिर्झरे ॥7.78.12॥ | 7.87.12bदेव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वतनिर्झरे ॥ १२ ॥ | 7.87.12bदेव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वतनिर्झरे ॥ 7.87.12 ॥ | ||
| 25 | #13aಯತ್ರ ಯತ್ರ ವನೋದ್ದೇಶೇ ಸತ್ತ್ವಾಃ ಪುರುಷವಾದಿನಃ । | 7.87.13aयत्र यत्र वनोद्देशे सत्त्वाः पुरुषवादिनः । | 7.78.13aये च तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः । | 7.87.13aये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः । | 7.87.13aये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः। | ||
| 26 | #13bವೃಕ್ಷಾಃ ಪುರುಷನಾಮಾನಸ್ತೇ ಸರ್ವೇ ಸ್ತ್ರೀಜನಾಭವನ್ ॥ | 7.87.13bवृक्षाः पुरुषनामानस्ते सर्वे स्त्रीजना भवन् ॥ १३ ॥ | 7.87.13bवृक्षाः पुरुषनामानस्तेभवन्स्त्रीजनास्तदा ॥ १३ ॥ | ||||
| 27 | #14aಯಚ್ಚ ಕಿಂಚನ ತತ್ಸರ್ವಂ ನಾರೀಸಂಜ್ಞಂ ಬಭೂವ ಹ । | 7.87.14aयच्च किञ्चन तत् सर्वं नारीसञ्ज्ञं बभूव ह । | 7.78.13bयच्च किंचन तत्सर्वं नारीसंज्ञं बभूव ह ॥7.78.13॥ | 7.87.14aयच्च किंचन तत्सर्वं नारीसंज्ञं बभूव ह । | |||
| 28 | 7.87.13bवृक्षाः पुरुषनामानस्तेऽभवन् स्त्रीजनास्तदा ॥ 7.87.13 ॥ | ||||||
| 29 | #14bಏತಸ್ಮಿನ್ನಂತರೇ ರಾಜಾ ಸ ಇಲಃ ಕರ್ದಮಾತ್ಮಜಃ ॥ | 7.87.14bएतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः ॥ १४ ॥ | 7.78.14aएतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः । | 7.87.14bएतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः । | 7.87.14aएतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः। | ||
| 30 | #15aನಿಘ್ನನ್ ಮೃಗಸಹಸ್ರಾಣಿ ತಂ ದೇಶಮುಪಚಕ್ರಮೇ । | 7.87.15aनिघ्नन् मृगसहस्राणि तं देशमुपचक्रमे । | 7.78.14bनिघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ॥7.78.14॥ | 7.87.14cनिघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ॥ १४ ॥ | 7.87.14bनिघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ॥ 7.87.14 ॥ | ||
| 31 | #15bಸ ದೃಷ್ಟ್ವಾ ಸ್ತ್ರೀಕೃತಂ ಸರ್ವಂ ಸವ್ಯಾಲಮೃಗಪಕ್ಷಿಣಮ್ ॥ | 7.87.15bस दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षिणम् ॥ १५ ॥ | 7.78.15aस दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षिणम् । | 7.87.15aस दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षिकम् । | 7.87.15aस दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षकम्। | ||
| 32 | 7.78.15bआत्मानं सानुगं चैव स्त्रीभूतं रघुनन्दन ॥7.78.15॥ | ||||||
| 33 | #16aಆತ್ಮಾನಂ ಸ್ತ್ರೀಕೃತಂ ಚೈವ ಸಾನುಗಂ ರಘುನಂದನ । | 7.87.16aआत्मानं स्त्रीकृतं चैव सानुगं रघुनन्दन । | 7.87.15bआत्मानं स्त्रीकृतं चैव सानुगं रघुनन्दन ॥ १५ ॥ | 7.87.15bआत्मनं स्त्रीकृतं चैव सानुगं रघुनन्दन ॥ 7.87.15 ॥ | |||
| 34 | #16bತಸ್ಯ ದುಃಖಂ ಮಹಚ್ಚಾಸೀದ್ದೃಷ್ಟ್ವಾಽಽತ್ಮಾನಂ ತಥಾಗತಮ್ ॥ | 7.87.16bतस्य दुःखं महच्चासीद् दृष्ट्वाऽऽत्मानं तथागतम् ॥ १६ ॥ | 7.78.16aतस्य दुःखं महत्त्वासीद्दृष्ट्वात्मानं तथा गतम् । | 7.87.16aतस्य दुःखं महच्चासीद्दृष्ट्वाऽऽत्मानं तथागतम् । | 7.87.16aतस्य दुःखं महच्चासीद्दृष्ट्वाऽऽत्मानं तथागतम्। | ||
| 35 | #17aಉಮಾಪತೇಶ್ಚ ತತ್ಕರ್ಮ ಜ್ಞಾತ್ವಾ ತ್ರಾಸಮುಪಾಗಮತ್ । | 7.87.17aउमापतेश्च तत् कर्म ज्ञात्वा त्रासमुपागमत् । | 7.78.16bउमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ॥7.78.16॥ | 7.87.16bउमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ॥ १६ ॥ | 7.87.16bउमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ॥ 7.87.16 ॥ | ||
| 36 | #17bತತೋ ದೇವಂ ಮಹಾತ್ಮಾನಂ ಶಿತಿಕಂಠಂ ಕಪರ್ದಿನಮ್ ॥ | 7.87.17bततो देवं महात्मानं शितिकण्ठं कपर्दिनम् ॥ १७ ॥ | 7.78.17aततो देवं महात्मानं शितिकण्ठं कपर्दिनम् । | 7.87.17aततो देवं महात्मानं शितिकण्ठं कपर्दिनम् । | 7.87.17aततो देवं महात्मानं शितिकण्ठं कपर्दिनम्। | ||
| 37 | #18aಜಗಾಮ ಶರಣಂ ರಾಜಾ ಸಭೃತ್ಯಬಲವಾಹನಃ । | 7.87.18aजगाम शरणं राजा सभृत्यबलवाहनः । | 7.78.17bजगाम शरणं राजा सभृत्यबलवाहनः ॥7.78.17॥ | 7.87.17bजगाम शरणं राजा सभृत्यबलवाहनः ॥ १७ ॥ | 7.87.17bजगाम शरणं राजा सभृत्यबलवाहनः ॥ 7.87.17 ॥ | ||
| 38 | #18bತತಃ ಪ್ರಹಸ್ಯ ವರದಃ ಸಹ ದೇವ್ಯಾ ಮಹೇಶ್ವರಃ ॥ | 7.87.18bततः प्रहस्य वरदः सह देव्या महेश्वरः ॥ १८ ॥ | 7.78.18aततः प्रहस्य वरदः सह देव्या महायशाः । | 7.87.18aततः प्रहस्य वरदः सह देव्या महेश्वरः । | 7.87.18aततः प्रहस्य वरदः सह देव्या महेश्वरः। | ||
| 39 | #19aಪ್ರಜಾಪತಿಸುತಂ ವಾಕ್ಯಮುವಾಚ ವರದಃ ಸ್ವಯಮ್ । | 7.87.19aप्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् । | 7.78.18bप्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ॥7.78.18॥ | 7.87.18bप्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ॥ १८ ॥ | 7.87.18bप्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ॥ 7.87.18 ॥ | ||
| 40 | #19bಉತ್ತಿಷ್ಠೋತ್ತಿಷ್ಠ ರಾಜರ್ಷೇ ಕಾರ್ದಮೇಯ ಮಹಾಬಲ ॥ | 7.87.19bउत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल ॥ १९ ॥ | 7.78.19aउत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल । | 7.87.19aउत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल । | 7.87.19aउत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल। | ||
| 41 | #20aಪುರುಷತ್ವಮೃತೇ ಸೌಮ್ಯ ವರಂ ವರಯ ಸುವ್ರತ । | 7.87.20aपुरुषत्वमृते सौम्य वरं वरय सुव्रत । | 7.78.19bपुरुषत्वमृते सौम्य वरं वरय सुव्रत ॥7.78.19॥ | 7.87.19bपुरुषत्वमृते सौम्य वरं वरय सुव्रत ॥ १९ ॥ | 7.87.19bपुरुषत्वमृते सौम्य वरं वरय सुव्रत ॥ 7.87.19 ॥ | ||
| 42 | #20bತತಃ ಸ ರಾಜಾ ಶೋಕಾರ್ತಃ ಪ್ರತ್ಯಾಖ್ಯಾತೋ ಮಹಾತ್ಮನಾ ॥ | 7.87.20bततः स राजा शोकार्तः प्रत्याख्यातो महात्मना ॥ २० ॥ | 7.78.20aततः स राजा शोकार्ताः प्रत्याख्यातो महात्मना । | 7.87.20aततः स राजा दुःखार्तः प्रत्याख्यातो महात्मना । | 7.87.20aततः स राजा दुःखार्तः प्रत्याख्यातो महात्मना। | ||
| 43 | #21aಸ್ತ್ರೀಭೂತೋಽಸೌ ನ ಜಗ್ರಾಹ ವರಮನ್ಯಂ ಸುರೋತ್ತಮಾತ್ । | 7.87.21aस्त्रीभूतोऽसौ न जग्राह वरमन्यं सुरोत्तमात् । | 7.78.20bन स जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ॥7.78.20॥ | 7.87.20bन च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ॥ २० ॥ | 7.87.20bन च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ॥ 7.87.20 ॥ | ||
| 44 | #21bತತಃ ಶೋಕೇನ ಮಹತಾ ಶೈಲರಾಜಸುತಾಂ ನೃಪಃ ॥ | 7.87.21bततः शोकेन महता शैलराजसुतां नृपः ॥ २१ ॥ | 7.78.21aततः शोकेन महता शैलराजसुतां नृपः । | 7.87.21aततः शोकेन महता शैलराजसुतां नृपः । | 7.87.21aततः शोकेन महता शैलराजसुतां नृपः। | ||
| 45 | #22aಪ್ರಣಿಪತ್ಯ ಉಮಾಂ ದೇವೀಂ ಸರ್ವೇಣೈವಾಂತರಾತ್ಮನಾ । | 7.87.22aप्रणिपत्य उमां देवीं सर्वेणैवान्तरात्मना । | 7.78.21bप्रणिपत्य महादेवीं सर्वेणैवान्तरात्मना ॥7.78.21॥ | 7.87.21bप्रणिपत्य ह्युमां देवीं सर्वेणैवान्तरात्मना ॥ २१ ॥ | 7.87.21bप्रणिपत्य ह्युमां देवीं सर्वेणैवान्तरात्मना ॥ 7.87.21 ॥ | ||
| 46 | #22bಈಶೇ ವರಾಣಾಂ ವರದೇ ಲೋಕಾನಾಮಸಿ ಭಾಮಿನಿ ॥ | 7.87.22bईशे वराणां वरदे लोकानामसि भामिनी ॥ २२ ॥ | 7.78.22aईशे वराणां वरदे लोकानामसि भामिनि । | 7.87.22aईशे वराणां वरदे लोकानामसि भामिनी । | 7.87.22aईशे वराणां वरदे लोकानामसि भामिनी। | ||
| 47 | #23aಅಮೋಘದರ್ಶನೇ ದೇವಿ ಭಜ ಸೌಮ್ಯೇನ ಚಕ್ಷುಷಾ । | 7.87.23aअमोघदर्शने देवि भज सौम्येन चक्षुषा । | 7.78.22bअमोघदर्शने देवि भजे सौम्ये नमोऽस्तु ते ॥7.78.22॥ | 7.87.22bअमोघदर्शने देवि भज सौम्येन चक्षुषा ॥ २२ ॥ | 7.87.22bअमोघदर्शने देवी भज सौम्येन चक्षुषा ॥ 7.87.22 ॥ | ||
| 48 | #23bಹೃದ್ಗತಂ ತಸ್ಯ ರಾಜರ್ಷೇರ್ವಿಜ್ಞಾಯ ಹರಸನ್ನಿಧೌ ॥ | 7.87.23bहृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ ॥ २३ ॥ | 7.78.23aहृद्गतं तस्य राजर्षेर्विज्ञाय हरसंनिधौ । | 7.87.23aहृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ । | 7.87.23aहृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ। | ||
| 49 | #24aಪ್ರತ್ಯುವಾಚ ಶುಭಂ ವಾಕ್ಯಂ ದೇವೀ ರುದ್ರಸ್ಯ ಸಮ್ಮತಾ । | 7.87.24aप्रत्युवाच शुभं वाक्यं देवी रुद्रस्य सम्मता । | 7.78.23bप्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ॥7.78.23॥ | 7.87.23bप्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ॥ २३ ॥ | 7.87.23bप्रत्युवाच शुभं वाक्यं देवी रुद्रस्य सम्मता ॥ 7.87.23 ॥ | ||
| 50 | #24bಅರ್ಧಸ್ಯ ದೇವೋ ವರದೋ ವರಾರ್ಧಸ್ಯ ತವ ಹ್ಯಹಮ್ ॥ | 7.87.24bअर्धस्य देवो वरदो वरार्धस्य तव ह्यहम् ॥ २४ ॥ | 7.78.24aअर्धस्य देवो वरदो वरार्धस्य तथा ह्यहम् । | 7.87.24aअर्धस्य देवो वरदो वरार्धस्य तव ह्यहम् । | 7.87.24aअर्धस्य देवो वरदो वरार्धस्य तव ह्यहम्। | ||
| 51 | #25aತಸ್ಮಾದರ್ಧಂ ಗೃಹಾಣ ತ್ವಂ ಸ್ತ್ರೀಪುಂಸೋರ್ಯಾವದಿಚ್ಛಸಿ । | 7.87.25aतस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि । | 7.78.24bतस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ॥7.78.24॥ | 7.87.24bतस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ॥ २४ ॥ | 7.87.24bतस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ॥ 7.87.24 ॥ | ||
| 52 | #25bತದದ್ಭುತತರಂ ಶ್ರುತ್ವಾ ದೇವ್ಯಾ ವರಮನುತ್ತಮಮ್ ॥ | 7.87.25bतदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् ॥ २५ ॥ | 7.78.25aतदद्भुततमं श्रुत्वा देव्या वरमनुत्तमम् । | 7.87.25aतदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् । | 7.87.25aतदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम्। | ||
| 53 | #26aಸಂಪ್ರಹೃಷ್ಟಮನಾ ಭೂತ್ವಾ ರಾಜಾವಾಕ್ಯಮಥಾಬ್ರವೀತ್ । | 7.87.26aसम्प्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् । | 7.78.25bसंप्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ॥7.78.25॥ | 7.87.25bसंप्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ॥ २५ ॥ | 7.87.25bसम्प्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ॥ 7.87.25 ॥ | ||
| 54 | #26bಯದಿ ದೇವಿ ಪ್ರಸನ್ನಾ ಮೇ ರೂಪೇಣಾಪ್ರತಿಮಾ ಭುವಿ ॥ | 7.87.26bयदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि ॥ २६ ॥ | 7.78.26aयदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि । | 7.87.26aयदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि । | 7.87.26aयदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि। | ||
| 55 | #27aಮಾಸಂ ಸ್ತ್ರೀತ್ವಮುಪಾಸಿತ್ವಾ ಮಾಸಂ ಸ್ಯಾಂಪುರುಷಃ ಪುನಃ । | 7.87.27aमासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः । | 7.78.26bमासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ॥7.78.26॥ | 7.87.26bमासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ॥ २६ ॥ | 7.87.26bमासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ॥ 7.87.26 ॥ | ||
| 56 | #27bಈಪ್ಸಿತಂ ತಸ್ಯ ವಿಜ್ಞಾಯ ದೇವೀ ಸುರುಚಿರಾನನಾ ॥ | 7.87.27bईप्सितं तस्य विज्ञाय देवी सुरुचिरानना ॥ २७ ॥ | 7.78.27aईप्सितं तस्य विज्ञाय देवी सुरुचिरानना । | 7.87.27aईप्सितं तस्य विज्ञाय देवी सुरुचिरानना । | 7.87.27aईप्सितं तस्य विज्ञाय देवी सुरुचिरानना। | ||
| 57 | #28aಪ್ರತ್ಯುವಾಚ ಶುಭಂ ವಾಕ್ಯಮೇವಮೇವ ಭವಿಷ್ಯತಿ । | 7.87.28aप्रत्युवाच शुभं वाक्यमेवमेव भविष्यति । | 7.78.27bप्रत्युवाच शुभं वाक्यमेवमेतद्भविष्यति ॥7.78.27॥ | 7.87.27bप्रत्युवाच शुभं वाक्यमेवमेव भविष्यति ॥ २७ ॥ | 7.87.27bप्रत्युवाच शुभं वाक्यमेवमेव भविष्यति ॥ 7.87.27 ॥ | ||
| 58 | #28bರಾಜನ್ಪುರುಷಭೂತಸ್ತ್ವಂ ಸ್ತ್ರೀಭಾವಂ ನ ಸ್ಮರಿಷ್ಯಸಿ ॥ | 7.87.28bराजन् पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि ॥ २८ ॥ | 7.78.28aराजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि । | 7.87.28aराजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि । | 7.87.28aराजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि। | ||
| 59 | #29aಸ್ತ್ರೀ ಭೂತಶ್ಚ ಪರಂ ಮಾಸಂ ನ ಸ್ಮರಿಷ್ಯಸಿಪೌರುಷಮ್ । | 7.87.29aस्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम् । | 7.78.28bस्त्रीभूतश्चापरं मासं न स्मरिष्यसि पौरुषम् ॥7.78.28॥ | 7.87.28bस्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम् ॥ २८ ॥ | 7.87.28bस्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम् ॥ 7.87.28 ॥ | ||
| 60 | #29bಏವಂ ಸ ರಾಜಾ ಪುರುಷೋ ಮಾಸಂ ಭೂತ್ವಾಥಕಾರ್ದಮಿಃ । | 7.87.29bएवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः । | 7.78.29aएवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः । | 7.87.29aएवं स राजा पुरुषो मासं भूत्वाऽथ कार्दमिः । | 7.87.29aएवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः। | ||
| 61 | #29cತ್ರೈಲೋಕ್ಯಸುಂದರೀ ನಾರೀ ಮಾಸಮೇಕಮಿಲಾಭವತ್ ॥ | 7.87.29cत्रैलोक्यसुन्दरी नारी मासमेकमिलाभवत् ॥ २९ ॥ | 7.78.29bत्रैलोक्यसुन्दरी नारी मासमेकमिलाभवत् ॥7.78.29॥ | 7.87.29bत्रैलोक्यसुन्दरी नारी मासमेकमिलाऽभवत् ॥ २९ ॥ | 7.87.29bत्रैलोक्यसुन्दरी नारी मासमेकमिलाऽभवत् ॥ 7.87.29 ॥ | ||
| 62 | 7.87.87इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्ताशीतितमः सर्गः ॥ ८७ ॥ |