किम्-पुरुष-स्त्री-करणम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
53 aligned line rows across 7 source streams.
gor-kn 48 lines
gor-hi 48 lines
crit 48 lines
gr 49 lines
dr-mula 48 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತಾಂ ಕಥಾಮೈಲಸಂಬದ್ಧಾಂ ರಾಮೇಣಸಮುದೀರಿತಾಮ್ । | 7.88.1aतां कथामैलसम्बद्धां रामेण समुदीरिताम् । | 7.79.1aतां कथामिलसंबद्धां रामेण समुदीरिताम् । | 7.88.1aतां कथामिलसंबन्धां रामेण समुदीरिताम् । | 7.88.1aतां कथामिलसम्बद्धां रामेण समुदीरिताम्। | ||
| 2 | #1bಲಕ್ಷ್ಮಣೋ ಭರತಶ್ಚೈವ ಶ್ರುತ್ವಾ ಪರಮವಿಸ್ಮಿತೌ ॥ | 7.88.1bलक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥ १ ॥ | 7.79.1bलक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥7.79.1॥ | 7.88.1bलक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥ १ ॥ | 7.88.1bलक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥ 7.88.1 ॥ | ||
| 3 | #2aತೌ ರಾಮಂ ಪ್ರಾಂಜಲೀ ಭೂತ್ವಾ ತಸ್ಯ ರಾಜ್ಞೋ ಮಹಾತ್ಮನಃ । | 7.88.2aतौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः । | 7.79.2aतौ रामं प्राञ्जलीभूत्वा तस्य राज्ञो महात्मनः । | 7.88.2aतौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः । | 7.88.2aतौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः। | ||
| 4 | #2bವಿಸ್ತರಂ ತಸ್ಯ ಭಾವಸ್ಯ ತದಾ ಪಪ್ರಚ್ಛತುಃ ಪುನಃ ॥ | 7.88.2bविस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥ २ ॥ | 7.79.2bविस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥7.79.2॥ | 7.88.2bविस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥ २ ॥ | 7.88.2bविस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥ 7.88.2 ॥ | ||
| 5 | #3aಕಥಂ ಸ ರಾಜಾ ಸ್ತ್ರೀಭೂತೋ ವರ್ತಯಾಮಾಸ ದುರ್ಗತಿಃ । | 7.88.3aकथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः । | 7.79.3aकथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिम् । | 7.88.3aकथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः । | 7.88.3aकथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः। | ||
| 6 | #3bಪುರುಷಃ ಸ ಯದಾ ಭೂತಃ ಕಾಂ ವೃತ್ತಿಂವರ್ತಯತ್ಯಸೌ ॥ | 7.88.3bपुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ॥ ३ ॥ | 7.79.3bपुरुषो वा यदा भूतः कां वृत्तिं वर्तयत्यसौ ॥7.79.3॥ | 7.88.3bपुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ॥ ३ ॥ | 7.88.3bपुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ॥ 7.88.3 ॥ | ||
| 7 | #4aತಯೋಸ್ತದ್ಭಾಷಿತಂ ಶ್ರುತ್ವಾ ಕೌತೂಹಲಸಮನ್ವಿತಮ್ । | 7.88.4aतयोस्तद् भाषितं श्रुत्वा कौतूहलसमन्वितम् । | 7.79.4aतयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् । | 7.88.4aतयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् । | 7.88.4aतयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम्। | ||
| 8 | #4bಕಥಯಾಮಾಸ ಕಾಕುತ್ಸ್ಥಸ್ತಸ್ಯ ರಾಜ್ಞೋ ಯಥಾಗಮಮ್ ॥ | 7.88.4bकथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ॥ ४ ॥ | 7.79.4bकथयामास काकुत्ष्ठस्तस्य राज्ञो यथा गतम् ॥7.79.4॥ | 7.88.4bकथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ॥ ४ ॥ | 7.88.4bकथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ॥ 7.88.4 ॥ | ||
| 9 | #5aತಮೇವ ಪ್ರಥಮಂ ಮಾಸಂ ಸ್ತ್ರೀ ಭೂತ್ವಾ ಲೋಕಸುಂದರೀ । | 7.88.5aतमेव प्रथमं मासं स्त्री भूत्वा लोकसुन्दरी । | 7.79.5aतमेव प्रथमं मासं स्त्रीभूत्वा लोकसुन्दरी । | 7.88.5aतमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी । | 7.88.5aतमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी। | ||
| 10 | #5bತಾಭಿಃ ಪರಿವೃತಾ ಸ್ತ್ರೀಭಿರ್ಯೇಽಸ್ಯ ಪೂರ್ವಂ ಪದಾನುಗಾಃ ॥ | 7.88.5bताभिः परिवृता स्त्रीभिर्येऽस्य पूर्वं पदानुगाः ॥ ५ ॥ | 7.79.5bताभिः परिवृता स्त्रीभिर्येऽस्य पूर्वं पदानुगाः ॥7.79.5॥ | 7.88.5bताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ॥ ५ ॥ | 7.88.5bताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ॥ 7.88.5 ॥ | ||
| 11 | #6aತತ್ಕಾನನಂ ವಿಗಾಹ್ಯಾಶು ವಿಜಹ್ರೇ ಲೋಕಸುಂದರೀ । | 7.88.6aतत्काननं विगाह्याशु विजह्रे लोकसुन्दरी । | 7.79.6aतत्काननं विगाह्याशु विजह्रे लोकसुन्दरी । | 7.88.6aतत्काननं विगाह्माशु विजह्रे लोकसुन्दरी । | 7.88.6aतत्काननं विगाह्वाशु विजह्रे लोकसुन्दरी। | ||
| 12 | #6bದ್ರುಮಗುಲ್ಮಲತಾಕೀರ್ಣಂ ಪದ್ಭ್ಯಾಂ ಪದ್ಮದಲೇಕ್ಷಣಾ ॥ | 7.88.6bद्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ॥ ६ ॥ | 7.79.6bद्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ॥7.79.6॥ | 7.88.6bद्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ॥ ६ ॥ | 7.88.6bद्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ॥ 7.88.6 ॥ | ||
| 13 | #7aವಾಹನಾನಿ ಚ ಸರ್ವಾಣಿ ಸಂತ್ಯಕ್ತ್ವಾ ವೈ ಸಮಂತತಃ । | 7.88.7aवाहनानि च सर्वाणि सन्त्यक्त्वा वै समन्ततः । | 7.79.7aवाहनानि च सर्वाणि संत्यक्त्वा वै समन्ततः । | 7.88.7aवाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः । | 7.88.7aवाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः। | ||
| 14 | #7bಪರ್ವತಾಭೋಗವಿವರೇ ತಸ್ಮಿನ್ರೇಮೇ ಇಲಾತದಾ ॥ | 7.88.7bपर्वताभोगविवरे तस्मिन् रेमे इला तदा ॥ ७ ॥ | 7.79.7bपर्वताभोगविवरे तस्मिन्रेमे इला तदा ॥7.79.7॥ | 7.88.7bपर्वताभोगविवरे तस्मिन्रेमे इला तदा ॥ ७ ॥ | 7.88.7bपर्वताभोगविवरे तस्मिन्रेमे इला तदा ॥ 7.88.7 ॥ | ||
| 15 | #8aಅಥ ತಸ್ಮಿನ್ವನೋದ್ದೇಶೇ ಪರ್ವತಸ್ಯಾವಿದೂರತಃ । | 7.88.8aअथ तस्मिन् वनोद्देशे पर्वतस्याविदूरतः । | 7.79.8aअथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः । | 7.88.8aअथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः । | 7.88.8aअथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः। | ||
| 16 | #8bಸರಃ ಸುರುಚಿರಪ್ರಖ್ಯಂ ನಾನಾಪಕ್ಷಿಗಣಾಯುತಮ್ ॥ | 7.88.8bसरः सुरुचिरप्रख्यं नानापक्षिगणायुतम् ॥ ८ ॥ | 7.79.8bसरः सुरुचिरप्रख्यं नानापक्षिगणायुतम् ॥7.79.8॥ | 7.88.8bसरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ॥ ८ ॥ | 7.88.8bसरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ॥ 7.88.8 ॥ | ||
| 17 | #9aದದರ್ಶ ಸಾ ಇಲಾ ತಸ್ಮಿನ್ ಬುಧಂ ಸೋಮಸುತಂ ತದಾ । | 7.88.9aददर्श सा इला तस्मिन् बुधं सोमसुतं तदा । | 7.79.9aददर्श सा इला तस्मिन्बुधं सोमसुतं तदा । | 7.88.9aददर्श सा त्विला तस्मिन्बुधं सोमसुतं ततः । | 7.88.9aददर्श सा त्विला तस्मिन्बुधं सोमसुतं तदा। | ||
| 18 | #9bಜ್ವಲಂತಂ ಸ್ವೇನ ವಪುಷಾ ಪೂರ್ಣಂ ಸೋಮಮಿವೋದಿತಮ್ ॥ | 7.88.9bज्वलन्तं स्वेन वपुषा पूर्णं सोममिवोदितम् ॥ ९ ॥ | 7.79.9bज्वलन्तं स्वेन वपुषा पूर्णं सोममिवोदितम् ॥7.79.9॥ | 7.88.9bज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ॥ ९ ॥ | 7.88.9bज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ॥ 7.88.9 ॥ | ||
| 19 | #10aತಪಂತಂ ಚ ತಪಸ್ತೀವ್ರಮಂಭೋಮಧ್ಯೇದುರಾಸದಮ್ । | 7.88.10aतपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् । | 7.79.10aतपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् । | 7.88.10aतपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् । | 7.88.10aतपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम्। | ||
| 20 | #10bಯಶಸ್ಕರಂ ಕಾಮಕರಂತಾರುಣ್ಯೇ ಪರ್ಯವಸ್ಥಿತಮ್ ॥ | 7.88.10bयशस्करं कामकरं तारुण्ये पर्यवस्थितम् ॥ १० ॥ | 7.79.10bयशक्सरं कामगमं तारुण्ये पर्यवस्थितम् ॥7.79.10॥ | 7.88.10bयशस्करं कामकरं तारुण्ये पर्यवस्थितम् ॥ १० ॥ | 7.88.10bयशस्करं कामकरं कारुण्ये पर्यवस्थितम् ॥ 7.88.10 ॥ | ||
| 21 | #11aಸಾ ತಂ ಜಲಾಶಯಂ ಸರ್ವಂ ಕ್ಷೋಭಯಾಮಾಸ ವಿಸ್ಮಿತಾ । | 7.88.11aसा तं जलाशयं सर्वं क्षोभयामास विस्मिता । | 7.79.11aसा तं जलाशयं सर्वं क्षोभयामास विस्मिता । | 7.88.11aसा तं जलाशयं सर्वं क्षोभयामास विस्मिता । | 7.88.11aसा तं जलाशयं सर्वं क्षोभयामास विस्मिता। | ||
| 22 | #11bಸಹ ತೈಃ ಪೂರ್ವಪುರುಷೈಃ ಸ್ತ್ರೀಭೂತೈ ರಘುನಂದನ ॥ | 7.88.11bसह तैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ॥ ११ ॥ | 7.79.11bसह तैः पूर पुरुषैः स्त्रीभूतै रघुनन्दन ॥7.79.11॥ | 7.88.11bसहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ॥ ११ ॥ | 7.88.11bसहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ॥ 7.88.11 ॥ | ||
| 23 | #12aಬುಧಸ್ತುತಾಂ ಸಮೀಕ್ಷೈವ ಕಾಮಬಾಣವಶಂ ಗತಃ । | 7.88.12aबुधस्तु तां समीक्ष्यैव कामबाणवशं गतः । | 7.79.12aबुधस्तु तां निरीक्ष्यैव कामबाणाभिपीडितः । | 7.88.12aबुधस्तु तां समीक्ष्यैव कामबाणवशं गतः । | 7.88.12aबुधस्तु तां समीक्ष्यैव कामबाणवशं गतः। | ||
| 24 | #12bನೋಪಲೇಭೇ ತದಾತ್ಮಾನಂ ಸ ಚಚಾಲ ತದಾಂಭಸಿ ॥ | 7.88.12bनोपलेभे तदात्मानं स चचाल तदाम्भसि ॥ १२ ॥ | 7.79.12bनोपलेभे तदात्मानं चचाल च तदाम्भसि ॥7.79.12॥ | 7.88.12bनोपलेभे तदाऽऽत्मानं संचचाल तदाऽम्भसि ॥ १२ ॥ | 7.88.12bनोपलेभे तदाऽऽत्मानं सञ्चचाल तदाऽऽम्भसि ॥ 7.88.12 ॥ | ||
| 25 | #13aಇಲಾಂ ನಿರೀಕ್ಷಮಾಣಸ್ತು ತ್ರೈಲೋಕ್ಯಾದಧಿಕಾಂ ಶುಭಾಮ್ । | 7.88.13aइलां निरीक्षमाणस्तु त्रैलोक्यादधिकां शुभाम् । | 7.79.13aइलां निरीक्षमाणः स त्रैलोक्याभ्यधिकां शुभाम् । | 7.88.13aइलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् । | 7.88.13aइलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम्। | ||
| 26 | #13bಚಿತ್ತಂ ಸಮಭ್ಯತಿಕ್ರಾಮನ್ ಕಾ ನ್ವಿಯಂ ದೇವತಾಧಿಕಾ ॥ | 7.88.13bचित्तं समभ्यतिक्रामत् का न्वियं देवताधिका ॥ १३ ॥ | 7.79.13bचिन्तां समभ्यतिक्रामत्का न्वियं देवताधिका ॥7.79.13॥ | 7.88.13bचिन्तां समभ्यतिक्रामत्का न्वियं देवताधिका ॥ १३ ॥ | 7.88.13bचिन्तां समभ्यतिक्रामत् का न्वियं देवताधिका ॥ 7.88.13 ॥ | ||
| 27 | #14aನ ದೇವೀಷು ನ ನಾಗೀಷು ನಾಸುರೀಷ್ವಪ್ಸರಃಸು ಚ । | 7.88.14aन देवीषु न नागीषु नासुरीष्वप्सरःसु च । | 7.79.14aन देवीषु न नागीषु नासुरीष्वप्सरःसु च । | 7.88.14aन देवीषु न नागीषु नासुरीष्वप्सरस्सु च । | 7.88.14aन देवीषु न नागीषु नासुरीष्वप्सरःसु च। | ||
| 28 | #14bದೃಷ್ಟಪೂರ್ವಾ ಮಯಾ ಕಾಚಿದ್ರೂಪೇಣಾನೇನ ಶೋಭಿತಾ ॥ | 7.88.14bदृष्टपूर्वा मया काचिद् रूपेणानेन शोभिता ॥ १४ ॥ | 7.79.14bदृष्टपूर्वा मया काचिद्रूपेणैतेन शोभिता ॥7.79.14॥ | 7.88.14bदृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ॥ १४ ॥ | 7.88.14bदृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ॥ 7.88.14 ॥ | ||
| 29 | #15aಸದೃಶೀಯಂ ಮಮ ಭವೇದ್ಯದಿ ನಾನ್ಯಪರಿಗ್ರಹಃ । | 7.88.15aसदृशीयं मम भवेद् यदि नान्यपरिग्रहः । | 7.79.15aसदृशीयं मम भवेद्यदि नान्यपरिग्रहा । | 7.88.15aसदृशीयं मम भवेद्यदि नान्यपरिग्रहः । | 7.88.15aसदृशीयं मम भवेद्यदि नान्यपरिग्रहः। | ||
| 30 | #15bಇತಿ ಬುದ್ಧಿಂ ಸಮಾಸ್ಥಾಯ ಜಲಾತ್ಕೂಲಮುಪಾಗಮತ್ ॥ | 7.88.15bइति बुद्धिं समास्थाय जलात् कूलमुपागमत् ॥ १५ ॥ | 7.79.15bइति बुद्धिं समास्थाय जलात्स्थलमुपागमत् ॥7.79.15॥ | 7.88.15bइति बुद्धिं समास्थाय जलात्कूलमुपागमत् ॥ १५ ॥ | 7.88.15bइति बुद्धिं समास्थाय जलात्कूलमुपागमत् ॥ 7.88.15 ॥ | ||
| 31 | 7.79.16aस आश्रमं समुपागम्य चतस्रः प्रमदास्ततः । | ||||||
| 32 | #16aಆಶ್ರಮಂ ಸಮುಪಾಗಮ್ಯ ತತಸ್ತಾಃಪ್ರಮದೋತ್ತಮಾಃ । | 7.88.16aआश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः । | 7.88.16aआश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः । | 7.88.16aआश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः। | |||
| 33 | #16bಶಬ್ದಾಪಯತ ಧರ್ಮಾತ್ಮಾತಾಶ್ಚೈನಂ ಚ ವವಂದಿರೇ ॥ | 7.88.16bशब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ॥ १६ ॥ | 7.79.16bशब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ॥7.79.16॥ | 7.88.16bशब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ॥ १६ ॥ | 7.88.16bशब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ॥ 7.88.16 ॥ | ||
| 34 | #17aಸ ತಾಃ ಪಪ್ರಚ್ಛ ಧರ್ಮಾತ್ಮಾ ಕಸ್ಯೈಷಾ ಲೋಕಸುಂದರೀ । | 7.88.17aस ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी । | 7.79.17aस ताः पप्रच्छ धर्मात्म कस्यैषा लोकसुन्दरी । | 7.88.17aस ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी । | 7.88.17aस ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी। | ||
| 35 | #17bಕಿಮರ್ಥಮಾಗತಾ ಚೈವ ಸರ್ವಮಾಖ್ಯಾತ ಮಾ ಚಿರಮ್ ॥ | 7.88.17bकिमर्थमागता चैव सर्वमाख्यात मा चिरम् ॥ १७ ॥ | 7.79.17bकिमर्थमागता चेह सत्यमाख्यात माचिरम् ॥7.79.17॥ | 7.88.17bकिमर्थमागता चैव सर्वमाख्यात मा चिरम् ॥ १७ ॥ | 7.88.17bकिमर्थमागता चैव सर्वमाख्यात मा चिरम् ॥ 7.88.17 ॥ | ||
| 36 | #18aಶುಭಂ ತು ತಸ್ಯ ತದ್ವಾಕ್ಯಂ ಮಧುರಂ ಮಧುರಾಕ್ಷರಮ್ । | 7.88.18aशुभं तु तस्य तद् वाक्यं मधुरं मधुराक्षरम् । | 7.79.18aशुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् । | 7.88.18aशुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् । | 7.88.18aशुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम्। | ||
| 37 | #18bಶ್ರುತ್ವಾ ಸ್ತ್ರಿಯಶ್ಚ ತಾಃ ಸರ್ವಾ ಊಚುರ್ಮಧುರಯಾ ಗಿರಾ ॥ | 7.88.18bश्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ॥ १८ ॥ | 7.79.18bश्रुत्वा तु ताः स्त्रियः सर्वा ऊचुर्मधुरया गिरा ॥7.79.18॥ | 7.88.18bश्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ॥ १८ ॥ | 7.88.18bश्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ॥ 7.88.18 ॥ | ||
| 38 | #19aಅಸ್ಮಾಕಮೇಷಾ ಸುಶ್ರೋಣೀ ಪ್ರಭುತ್ವೇ ವರ್ತತೇ ಸದಾ । | 7.88.19aअस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा । | 7.79.19aअस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा । | 7.88.19aअस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा । | 7.88.19aअस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा। | ||
| 39 | #19bಅಪತಿಃ ಕಾನನಾಂತೇಷು ಸಹಾಸ್ಮಾಭಿಶ್ಚರತ್ಯಸೌ ॥ | 7.88.19bअपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ॥ १९ ॥ | 7.79.19bअपतिः काननान्तेषु सहास्माभिरटत्यसौ ॥7.79.19॥ | 7.88.19bअपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ॥ १९ ॥ | 7.88.19bअपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ॥ 7.88.19 ॥ | ||
| 40 | #20aತದ್ವಾಕ್ಯಮವ್ಯಕ್ತಪದಂ ತಾಸಾಂ ಸ್ತ್ರೀಣಾಂ ನಿಶಮ್ಯ ಚ । | 7.88.20aतद् वाक्यमाव्यक्तपदं तासां स्त्रीणां निशम्य च । | 7.79.20aतद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य तु । | 7.88.20aतद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च । | 7.88.20aतद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च। | ||
| 41 | #20bವಿದ್ಯಾಮಾವರ್ತಿನೀಂ ಪುಣ್ಯಾಮಾವರ್ತಯತ ಸ ದ್ವಿಜಃ ॥ | 7.88.20bविद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ॥ २० ॥ | 7.79.20bविद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ॥7.79.20॥ | 7.88.20bविद्यामावर्तिनीं पुण्यामावर्तयत स द्विजः ॥ २० ॥ | 7.88.20bविद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ॥ 7.88.20 ॥ | ||
| 42 | #21aಸೋಽರ್ಥಂ ವಿದತ್ವಾ ಸಕಲಂ ತಸ್ಯ ರಾಜ್ಞೋ ಯಥಾ ತಥಾ । | 7.88.21aसोऽर्थं विदित्वा सकलं तस्य राज्ञो यथा तथा । | 7.79.21aसोऽर्थं विदित्वा निखिलं तस्य राज्ञो यथागतम् । | 7.88.21aसोर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् । | 7.88.21aसोऽर्थं विदित्वा सकलं तस्य राज्ञो यथागतम्। | ||
| 43 | #21bಸರ್ವಾ ಏವ ಸ್ತ್ರಿಯಸ್ತಾಶ್ಚ ಬಭಾಷೇ ಮುನಿಪುಂಗವಃ ॥ | 7.88.21bसर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ॥ २१ ॥ | 7.79.21bसर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुंगवः ॥7.79.21॥ | 7.88.21bसर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ॥ २१ ॥ | 7.88.21bसर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ॥ 7.88.21 ॥ | ||
| 44 | 7.79.22aअत्र किं पुरुषा भद्रा अवसञ्शैलरोधसि । | ||||||
| 45 | 7.79.22bवत्स्यथास्मिन्गिरौ यूयमवकाशो विधीयताम् ॥7.79.22॥ | ||||||
| 46 | #22aಅತ್ರ ಕಿಂಪುರುಷಿರ್ಭೂತ್ವಾ ಶೈಲರೋಧಸಿ ವತ್ಸ್ಯಥ । | 7.88.22aअत्र किम्पुरुषीर्भूत्वा शैलरोधसि वत्स्यथ । | 7.88.22aअत्र किंपुरुषीभूत्वा शैलरोधसि वत्स्यथ । | 7.88.22aअत्र किम्पुरुषीर्भूत्वा शैलरोधसि वत्स्यथ। | |||
| 47 | #22bಆವಾಸಸ್ತು ಗಿರಾವಸ್ಮಿನ್ ಶೀಘ್ರಮೇವ ವಿಧೀಯತಾಮ್ ॥ | 7.88.22bआवासस्तु गिरावस्मिन् शीघ्रमेव विधीयताम् ॥ २२ ॥ | 7.88.22bआवासस्तु गिरावस्मिञ्शीघ्रमेव विधीयताम् ॥ २२ ॥ | 7.88.22bआवासस्तु गिरावस्मिञ्छीघ्रमेव विधीयताम् ॥ 7.88.22 ॥ | |||
| 48 | #23aಮೂಲಪತ್ರಲೈಃ ಸರ್ವಾ ವರ್ತಯಿಷ್ಯಥ ನಿತ್ಯದಾ । | 7.88.23aमूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा । | 7.79.23aमूलपुत्रफलैः सर्वा वर्तयिष्यथ नित्यदा । | 7.88.23aमूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा । | 7.88.23aमूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा। | ||
| 49 | #23bಸ್ತ್ರಿಯಃ ಕಿಂಪುರುಷಾನ್ನಾಮ ಭರ್ತೃನ್ಸಮುಪಲಪ್ಸ್ಯಥ ॥ | 7.88.23bस्त्रियः किम्पुरुषान्नाम भर्तॄन् समुपलप्स्यथ ॥ २३ ॥ | 7.79.23bस्त्रियः किम्पुरुषान्नाम भर्तॄन्समुपलप्स्यथ ॥7.79.23॥ | 7.88.23bस्त्रियः किंपुरुषान्नाम भर्तृन्त्समुपलप्स्यथ ॥ २३ ॥ | 7.88.23bस्त्रियः किम्पुरुषान्नाम भर्तॄन्समुपलप्स्यथ ॥ 7.88.23 ॥ | ||
| 50 | #24aತಾಃ ಶ್ರುತ್ವಾ ಸೋಮಪುತ್ರಸ್ಯ ಸ್ತ್ರಿಯಃ ಕಿಂಪುರುಷೀಕೃತಾಃ । | 7.88.24aताः श्रुत्वा सोमपुत्रस्य स्त्रियः किम्पुरुषीकृताः । | 7.79.24aताः श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः । | 7.88.24aतां श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः । | 7.88.24aताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः। | ||
| 51 | 7.79.24bउपासां चक्रिरे शैलं बह्व्यस्ता बहुधा तदा ॥7.79.24॥ | ||||||
| 52 | #24bಉಪಾಸಾಂಚಕ್ರಿರೇ ಶೈಲಂ ವಧ್ವಸ್ತಾ ಬಹುಲಾಸ್ತದಾ ॥ | 7.88.24bउपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा ॥ २४ ॥ | 7.88.24bउपासांचक्रिरे शैलं वध्वस्ता बहुलास्तदा ॥ २४ ॥ | 7.88.24bउपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा ॥ 7.88.24 ॥ | |||
| 53 | 7.88.88इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टाशीतितमः सर्गः ॥ ८८ ॥ |