सीता-शपथ-व्यवस्था. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
35 aligned line rows across 7 source streams.
gor-kn 34 lines
gor-hi 34 lines
crit 31 lines
gr 35 lines
dr-mula 33 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aರಾಮೋ ಬಹೂನ್ಯಹಾನ್ಯೇವ ತದ್ಗೀತಂ ಪರಮಂ ಶುಭಮ್ । | 7.95.1aरामो बहून्यहान्येव तद् गीतं परमं शुभम् । | 7.86.1aरामो बहून्यहान्येव तद्गीतं परमाद्भुतम् । | 7.95.1aरामो बहून्यहान्येवं तद्गीतं परमं शुभम् । | 7.95.1aरामो बहून्यहान्येवं तद्गीतं परमं शुभम्। | ||
| 2 | #1bಶುಶ್ರಾವ ಮುನಿಭಿಃ ಸಾರ್ಧಂ ಪಾರ್ಥಿವೈಃ ಸಹ ವಾನರೈಃ ॥ | 7.95.1bशुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ॥ १ ॥ | 7.86.1bशुश्राव मुनिभिः सार्धं राजभिः सह वानरैः ॥7.86.1॥ | 7.95.1bशुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ॥ १ ॥ | 7.95.1bशुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ॥ 7.95.1 ॥ | ||
| 3 | #2aತಸ್ಮಿನ್ಗೀತೇ ತು ವಿಜ್ಞಾಯ ಸೀತಾಪುತ್ರೌ ಕುಶೀಲವೌ । | 7.95.2aतस्मिन् गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ । | 7.86.2aतस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ । | 7.95.2aतस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ । | |||
| 4 | #2bತಸ್ಯಾಃ ಪರಿಷದೋ ಮಧ್ಯೇ ರಾಮೋ ವಚನಮಬ್ರವೀತ್ ॥ | 7.95.2bतस्याः परिषदो मध्ये रामो वचनमब्रवीत् ॥ २ ॥ | 7.86.2bतस्याः परिषदो मध्ये रामो वचनमब्रवीत् ॥7.86.2॥ | 7.95.2bतस्याः परिषदो मध्ये रामो वचनमब्रवीत् । | 7.95.2aतस्याः परिषदो मध्ये रामो वचनमब्रवीत्। | ||
| 5 | #3aದೂತಾನ್ ಶುದ್ಧಸಮಾಚಾರಾನಾಹೂಯಾತ್ಮಮನೀಷಯಾ । | 7.95.3aदूतान् शुद्धसमाचारानाहूयात्ममनीषया । | 7.95.2cदूताञ्शुद्धसमाचारानाहूयात्ममनीषया ॥ २ ॥ | 7.95.2bदूताञ्छुद्धसमाचारानाहूयात्ममनीषया ॥ 7.95.2 ॥ | |||
| 6 | #3bಮದ್ವಚೋ ಬ್ರೂತ ಗಚ್ಛಧ್ವಮಿತೋ ಭಗವತೋಂತಿಕೇ ॥ | 7.95.3bमद् वचो ब्रूत गच्छध्वमितो भगवतोऽन्तिके ॥ ३ ॥ | 7.86.3मद्वचो ब्रूत गच्छध्वमिति भगवतोऽन्तिकम् ॥7.86.3॥ | 7.95.3मद्वचो ब्रूत गच्छध्वमितो भगवतोऽन्तिकम् ॥ ३ ॥ | 7.95.3मद्वचो ब्रूत गच्छध्वमितो भगवतोऽन्तिकम् ॥ 7.95.3 ॥ | ||
| 7 | #4aಯದಿ ಶುದ್ಧಸಮಾಚಾರಾ ಯದಿ ವಾ ವೀತಕಲ್ಮಷಾ । | 7.95.4aयदि शुद्धसमाचारा यदि वा वीतकल्मषा । | 7.86.4aयदि शुद्धसमाचारा यदि वा वीतकल्मषा । | 7.95.4aयदि शुद्धसमाचारा यदि वा वीतकल्मषा । | 7.95.4aयदि शुद्धसमाचारा यदि वा वीतकल्मषा। | ||
| 8 | #4bಕರೋತ್ವಿಹಾತ್ಮನಃ ಶುದ್ಧಿಮನುಮಾನ್ಯ ಮಹಾಮುನಿಮ್ ॥ | 7.95.4bकरोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥ ४ ॥ | 7.86.4bकरोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥7.86.4॥ | 7.95.4bकरोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥ ४ ॥ | 7.95.4bकरोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥ 7.95.4 ॥ | ||
| 9 | #5aಛಂದಂ ಮುನೇಶ್ಚ ವಿಜ್ಞಾಯ ಸೀತಾಯಾಶ್ಚ ಮನೋಗತಮ್ । | 7.95.5aछन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् । | 7.86.5aछन्दं मुनेस्तु विज्ञाय सीतायाश्च मनोगतम् । | 7.95.5aछन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् । | 7.95.5aछन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम्। | ||
| 10 | #5bಪ್ರತ್ಯಯಂ ದಾತುಕಾಮಾಯಾಸ್ತತಃ ಶಂಸತ ಮೇ ಲಘು ॥ | 7.95.5bप्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥ ५ ॥ | 7.86.5bप्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥7.86.5॥ | 7.95.5bप्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥ ५ ॥ | 7.95.5bप्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥ 7.95.5 ॥ | ||
| 11 | #6aಶ್ವಃ ಪ್ರಭಾತೇ ತು ಶಪಥಂ ಮೈಥಿಲೀ ಜನಕಾತ್ಮಜಾ । | 7.95.6aश्वः प्रभाते तु शपथं मैथिली जनकात्मजा । | 7.86.6aश्वः प्रभाते तु शपथं मैथिली जनकात्मजा । | 7.95.6aश्वः प्रभाते तु शपथं मैथिली जनकात्मजा । | 7.95.6aश्वः प्रभाते तु शपथं मैथिली जनकात्मजा। | ||
| 12 | #6bಕರೋತು ಪರಿಷನ್ಮಧ್ಯೇ ಶೋಧನಾರ್ಥಂ ಮಮೈವ ಚ ॥ | 7.95.6bकरोतु परिषन्मध्ये शोधनार्थं ममैव च ॥ ६ ॥ | 7.86.6bकरोतु परिषन्मध्ये शोधनार्थं ममेह च ॥7.86.6॥ | 7.95.6bकरोतु परिषन्मध्ये शोधनार्थं ममैव च ॥ ६ ॥ | 7.95.6bकरोतु परिषन्मध्ये शोधनार्थं ममैव च ॥ 7.95.6 ॥ | ||
| 13 | #7aಶ್ರುತ್ವಾ ತು ರಾಘವಸ್ಯೈತದ್ ವಚಃ ಪರಮಮದ್ಭುತಮ್ । | 7.95.7aश्रुत्वा तु राघवस्यैतद् वचः परममद्भुतम् । | 7.86.7aश्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम् । | 7.95.7aश्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम् । | 7.95.7aश्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम्। | ||
| 14 | #7bದೂತಾಃ ಸಂಪ್ರಯಯುರ್ಬಾಢಂ ಯತ್ರವೈ ಮುನಿಪುಂಗವಃ ॥ | 7.95.7bदूताः सम्प्रययुर्बाढं यत्र वै मुनिपुङ्गवः ॥ ७ ॥ | 7.86.7bदूताः संप्रययुर्वाटं यत्रास्ते मुनिपुंगवः ॥7.86.7॥ | 7.95.7bदूताः संप्रययुर्वाटं यत्रास्ते मुनिपुङ्गवः ॥ ७ ॥ | 7.95.7bदूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः ॥ 7.95.7 ॥ | ||
| 15 | #8aತೇ ಪ್ರಣಮ್ಯ ಮಹಾತ್ಮಾನಂ ಜ್ವಲಂತಮಮಿತಪ್ರಭಮ್ । | 7.95.8aते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् । | 7.86.8aते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् । | 7.95.8aते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् । | 7.95.8aते प्रणम्य महात्मानं ज्वलन्तममितप्रभम्। | ||
| 16 | #8bಊಚುಸ್ತೇ ರಾಮವಾಕ್ಯಾನಿ ಮೃದೂನಿ ಮಧುರಾಣಿ ಚ ॥ | 7.95.8bऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥ ८ ॥ | 7.86.8bऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥7.86.8॥ | 7.95.8bऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥ ८ ॥ | 7.95.8bऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥ 7.95.8 ॥ | ||
| 17 | #9aತೇಷಾಂ ತದ್ಭಾಷಿತಂ ಶ್ರುತ್ವಾ ರಾಮಸ್ಯ ಚ ಮನೋಗತಮ್ । | 7.95.9aतेषां तद् भाषितं श्रुत्वा रामस्य च मनोगतम् । | 7.86.9aतेषां तद्भाषितं श्रुत्वा रामस्य च मनोगतम् । | 7.95.9aतेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् । | 7.95.9aतेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम्। | ||
| 18 | #9bವಿಜ್ಞಾಯ ಸುಮಹಾತೇಜಾ ಮುನಿರ್ವಾಕ್ಯ ಮಥಾಬ್ರವೀತ್ ॥ | 7.95.9bविज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥ ९ ॥ | 7.86.9bविज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥7.86.9॥ | 7.95.9bविज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥ ९ ॥ | 7.95.9bविज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥ 7.95.9 ॥ | ||
| 19 | #10aಏವಂ ಭವತು ಭದ್ರಂ ವೋ ಯಥಾ ವದತಿ ರಾಘವಃ । | 7.95.10aएवं भवतु भद्रं वो यथा वदति राघवः । | 7.86.10aएवं भवतु भद्रं वो यथा तुष्यति राघवः । | 7.95.10aएवं भवतु भद्रं वो यथा वदति राघवः । | 7.95.10aएवं भवतु भद्रं वो यथा वदति राघवः। | ||
| 20 | #10bತಥಾ ಕರಿಷ್ಯತೇ ಸೀತಾ ದೈವತಂ ಹಿ ಪತಿಃ ಸಿಯಾಃ ॥ | 7.95.10bतथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥ १० ॥ | 7.86.10bतथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥7.86.10॥ | 7.95.10bतथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥ १० ॥ | 7.95.10bतथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥ 7.95.10 ॥ | ||
| 21 | #11aತಥೋಕ್ತಾ ಮುನಿನಾ ಸರ್ವೇ ರಾಜದೂತಾ ಮಹೌಜಸಮ್ । | 7.95.11aतथोक्ता मुनिना सर्वे राजदूता महौजसम् । | 7.86.11aतथोक्ता मुनिना सर्वे रामदूता महौजसः । | 7.95.11aतथोक्ता मुनिना सर्वे रामदूता महौजसम् । | 7.95.11aतथोक्ता मुनिना सर्वे राजदूता महौजसम्। | ||
| 22 | #11bಪ್ರತ್ಯೇತ್ಯ ರಾಘವಂ ಸರ್ವಂ ಮುನಿವಾಕ್ಯಂ ಬಭಾಷಿರೇ ॥ | 7.95.11bप्रत्येत्य राघवं सर्वं मुनिवाक्यं बभाषिरे ॥ ११ ॥ | 7.86.11bप्रत्येत्य राघवं सर्वे मुनिवाक्यं बभाषिरे ॥7.86.11॥ | 7.95.11bप्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ॥ ११ ॥ | 7.95.11bप्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ॥ 7.95.11 ॥ | ||
| 23 | #12aತತಃ ಪ್ರಹೃಷ್ಟಃ ಕಾಕುತ್ಸ್ಥಃಶ್ರುತ್ವಾ ವಾಕ್ಯಂ ಮಹಾತ್ಮನಃ । | 7.95.12aततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः । | 7.86.12aततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः । | 7.95.12aततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः । | 7.95.12aततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः। | ||
| 24 | #12bಋಷೀಂಸ್ತತ್ರ ಸಮೇತಾಂಶ್ಚ ರಾಜ್ಞಶ್ಚೈವಾಭ್ಯಭಾಷತ ॥ | 7.95.12bऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ॥ १२ ॥ | 7.86.12bऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ॥7.86.12॥ | 7.95.12bऋषींस्तत्र समेतांश्च राज्ञवैवाभ्यभाषत ॥ १२ ॥ | 7.95.12bऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ॥ 7.95.12 ॥ | ||
| 25 | #13aಭಗವಂತಃ ಸಶಿಷ್ಯಾ ವೈ ಸಾನುಗಾಶ್ಚ ನರಾಧಿಪಾಃ । | 7.95.13aभगवन्तः सशिष्या वै सानुगाश्च नराधिपाः । | 7.86.13aभगवन्तः सशिष्या वै सानुगाश्च नराधिपाः । | 7.95.13aभगवन्तः सशिष्या वै सानुगाश्च नराधिपाः । | 7.95.13aभगवन्तः सशिष्या वै सानुगाश्च नराधिपाः। | ||
| 26 | #13bಪಶ್ಯಂತು ಸೀತಾಶಪಥಂ ಯಶ್ಚೈವಾನ್ಯೋಪಿ ಕಾಂಕ್ಷತೇ ॥ | 7.95.13bपश्यन्तु सीताशपथं यश्चैवान्योऽपि काङ्क्षते ॥ १३ ॥ | 7.86.13bपश्यन्तु सीताशपथं यश्चैवान्योऽभिकाङ्क्षते ॥7.86.13॥ | 7.95.13bपश्यन्तु सीताशपथं यश्चैवान्योपि काङ्क्षते ॥ १३ ॥ | 7.95.13bपश्यन्तु सीताशपथं यश्चैवान्योऽपि काङ्क्षते ॥ 7.95.13 ॥ | ||
| 27 | #14aತಸ್ಯ ತದ್ವಚನಂ ಶ್ರುತ್ವಾ ರಾಘವಸ್ಯ ಮಹಾತ್ಮನಃ । | 7.95.14aतस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः । | 7.86.14aतस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । | 7.95.14aतस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । | 7.95.14aतस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः। | ||
| 28 | #14bಸರ್ವೇಷಾಮೃಷಿಮುಖ್ಯಾನಾಂ ಸಾಧುವಾದೋ ಮಹಾನಭೂತ್ ॥ | 7.95.14bसर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥ १४ ॥ | 7.86.14bसर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥7.86.14॥ | 7.95.14bसर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥ १४ ॥ | 7.95.14bसर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥ 7.95.14 ॥ | ||
| 29 | #15aರಾಜಾನಶ್ಚ ಮಹಾತ್ಮಾನಂ ಪ್ರಶಂಸಂತಿ ಸ್ಮ ರಾಘವಮ್ । | 7.95.15aराजानश्च महात्मानं प्रशंसन्ति स्म राघवम् । | 7.86.15aराजानश्च महात्मानः प्रशंसन्ति स्म राघवम् । | 7.95.15aराजानश्च महात्मानं प्रशंसन्ति स राघवम् । | 7.95.15aराजानश्च महात्मानः प्रशंसन्ति स्म राघवम्। | ||
| 30 | #15bಉಪಪನ್ನಂ ನರಶ್ರೇಷ್ಠ ತ್ವಯ್ಯೇವ ಭುವಿ ನಾನ್ಯತಃ ॥ | 7.95.15bउपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥ १५ ॥ | 7.86.15bउपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥7.86.15॥ | 7.95.15bउपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥ १५ ॥ | 7.95.15bउपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥ 7.95.15 ॥ | ||
| 31 | #16aಏವಂ ವಿನಿಶ್ಚಯಂಕೃತ್ವಾ ಶ್ವೋಭೂತ ಇತಿ ರಾಘವಃ । | 7.95.16aएवं विनिश्चयं कृत्वा श्वोभूत इति राघवः । | 7.86.16aएवं विनिश्चयं कृत्वा श्वोभूत इति राघवः । | 7.95.16aएवं विनिश्रयं कृत्वा श्वोभूत इति राघवः । | 7.95.16aएवं विनिश्चयं कृत्वा श्वोभूत इति राघवः। | ||
| 32 | #16bವಿಸರ್ಜಯಾಮಾಸ ತದಾ ಸರ್ವಾಂಸ್ತಾನ್ ಶತ್ರುಸೂದನಃ ॥ | 7.95.16bविसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः ॥ १६ ॥ | 7.86.16bविसर्जयामास तदा सर्वांस्ताञ्शत्रुसूदनः ॥7.86.16॥ | 7.95.16bविसर्जयामास तदा सर्वांस्ताञ्शत्रुसूदनः ॥ १६ ॥ | 7.95.16bविसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः ॥ 7.95.16 ॥ | ||
| 33 | #17aಇತಿ ಸಂಪ್ರವಿಚಾರ್ಯ ರಾಜಸಿಂಹಃ ಶ್ವೋಭೂತೋ ಶಪಥಸ್ಯ ನಿಶ್ಚಯಮ್ । | 7.95.17aइति सम्प्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयम् । | 7.95.17aइति संप्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै । | 7.95.17aइति सम्प्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै। | |||
| 34 | #17bವಿಸಸರ್ಜ ಮುನೀನ್ ನೃಪಾಂಶ್ಚ ಸರ್ವಾನ್ ಸ ಮಹಾತ್ಮಾ ಮಹತೋ ಮಹಾನುಭಾವಃ ॥ | 7.95.17bविससर्ज मुनीन् नृपांश्च सर्वान् स महात्मा महतो महानुभावः ॥ १७ ॥ | 7.95.17bविससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः ॥ १७ ॥ | 7.95.17bविससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः ॥ 7.95.17 ॥ | |||
| 35 | 7.95.95इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चनवतितमः सर्गः ॥ ९५ ॥ |