तक्ष-शिला--पुष्कल-ग्रहणम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
38 aligned line rows across 7 source streams.
gor-kn 36 lines
gor-hi 36 lines
crit 34 lines
gr 37 lines
dr-mula 36 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಶ್ರುತ್ವಾ ಸೇನಾಪತಿಂಪ್ರಾಪ್ತಂ ಭರತಂ ಕೇಕಯಾಧಿಪಃ । | 7.101.1aश्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः । | 7.91.1aश्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः । | 7.101.1aश्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः । | 7.101.1aश्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः। | ||
| 2 | #1bಯುಧಾಜಿದ್ಗಾರ್ಗ್ಯಸಹಿತಂ ಪರಾಂ ಪ್ರೀತಿಮುಪಾಗಮತ್ ॥ | 7.101.1bयुधाजिद् गार्ग्यसहितं परां प्रीतिमुपागमत् ॥ १ ॥ | 7.91.1bयुधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् ॥7.91.1॥ | 7.101.1bयुधाजिद्गार्ग्यसहितं परां प्रीतिनुपागमत् ॥ १ ॥ | 7.101.1bयुधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् ॥ 7.101.1 ॥ | ||
| 3 | #2aಸ ನಿರ್ಯಯೌ ಜನೌಘೇನ ಮಹತಾ ಕೇಕಯಾಧಿಪಃ । | 7.101.2aस निर्ययौ जनौघेन महता केकयाधिपः । | 7.91.2aस निर्ययौ जनौघेन महता केकयाधिपः । | 7.101.2aस निर्ययौ जनौघेन महता केकयाधिपः । | 7.101.2aस निर्ययौ जनौघेन महता केकयाधिपः। | ||
| 4 | #2bತ್ವ ರಮಾಣೋಽಭಿಚಕ್ರಾಮ ಗಂಧರ್ವಾನ್ಕಾಮರೂಪಿಣಃ ॥ | 7.101.2bत्वरमाणोऽभिचक्राम गन्धर्वान् कामरूपिणः ॥ २ ॥ | 7.91.2bत्वरमाणोऽभिचक्राम गन्धर्वान्देवरूपिणः ॥7.91.2॥ | 7.101.2bत्वरमाणोभिचक्राम गन्धर्वान्कामरूपिणः ॥ २ ॥ | 7.101.2bत्वरमाणोऽभिचक्राम गन्धर्वान्कामरूपिणः ॥ 7.101.2 ॥ | ||
| 5 | #3aಭರತಶ್ಚ ಯುಧಾಜಿಚ್ಚ ಸಮೇತೌ ಲಘುವಿಕ್ರಮೈಃ । | 7.101.3aभरतश्च युधाजिच्च समेतौ लघुविक्रमैः । | 7.91.3aभरतश्च युधाजिच्च समेतौ लघुविक्रमौ । | 7.101.3aभरतश्च युधाजिच्च समेतौ लघुविक्रमैः । | 7.101.3aभरतश्च युधाजिच्च समेतौ लघुविक्रमैः। | ||
| 6 | #3bಗಂಧರ್ವನಗರಂ ಪ್ರಾಪ್ತೌ ಸಬಲೌ ಸಪದಾನುಗೌ ॥ | 7.101.3bगन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ॥ ३ ॥ | 7.91.3bगन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ॥7.91.3॥ | 7.101.3bगन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ॥ ३ ॥ | 7.101.3bगन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ॥ 7.101.3 ॥ | ||
| 7 | #4aಶ್ರುತ್ವಾ ತು ಭರತಂ ಪ್ರಾಪ್ತಂ ಗಂಧರ್ವಾಸ್ತೇ ಸಮಾಗತಾಃ । | 7.101.4aश्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः । | 7.91.4aश्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः । | 7.101.4aश्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः । | 7.101.4aश्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः। | ||
| 8 | #4bಯೋದ್ಧುಕಾಮಾ ಮಹಾವೀರ್ಯಾ ವ್ಯನದಂಸ್ತೇ ಸಮಂತತಃ ॥ | 7.101.4bयोद्धुकामा महावीर्या व्यनदंस्ते समन्ततः ॥ ४ ॥ | 7.91.4bयोद्धुकामा महावीर्या विनदन्तः समन्ततः ॥7.91.4॥ | 7.101.4bयोद्धुकामा महावीर्या व्यनदन्वै समन्ततः ॥ ४ ॥ | 7.101.4bयोद्धुकामा महावीर्या व्यनदन् वै समन्ततः ॥ 7.101.4 ॥ | ||
| 9 | #5aತತಃ ಸಮಭವದ್ಯುದ್ಧಂ ತುಮುಲಂ ರೋಮಹರ್ಷಣಮ್ । | 7.101.5aततः समभवद्युद्धं तुमुलं लोमहर्षणम् । | 7.91.5aततः समभवद्युद्धं तुमुलं लोमहर्षणम् । | 7.101.5aततः समभवद्युद्धं तुमुलं रोमहर्षणम् । | 7.101.5aततः समभवद्युद्धं तुमुलं रोमहर्षणम्। | ||
| 10 | #5bಸಪ್ತರಾತ್ರಂ ಮಹಾಭೀಮಂ ನ ಚಾನ್ಯತರಯೋರ್ಜಯಃ ॥ | 7.101.5bसप्तरात्रं महाभीमं न चान्यतरयोर्जयः ॥ ५ ॥ | 7.91.5bसप्तरात्रं महाभीमं न चान्यतरयोर्जयः ॥7.91.5॥ | 7.101.5bसप्तरात्रं महाभीमं न चान्यतरयोर्जयः ॥ ५ ॥ | 7.101.5bसप्तरात्रं महाभीमं न चान्यतरयोर्जयः ॥ 7.101.5 ॥ | ||
| 11 | #6aಖಡ್ಗಶಕ್ತಿಧನುರ್ಗ್ರಾಹಾ ನದ್ಯಃ ಶೋಣಿತಸಂಸ್ರವಾಃ । | 7.101.6aखड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः । | 7.101.6aखड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः । | 7.101.6aखड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः। | |||
| 12 | #6bನೃಕಲೇವರವಾಹನ್ಯಃ ಪ್ರವೃತ್ತಾಃ ಸರ್ವತೋ ದಿಶಮ್ ॥ | 7.101.6bनृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम् ॥ ६ ॥ | 7.101.6bनृकलेबरवाहिन्यः प्रवृत्ताः सर्वतो दिशम् ॥ ६ ॥ | 7.101.6bनृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम् ॥ 7.101.6 ॥ | |||
| 13 | #7aತತೋ ರಾಮಾನುಜಃ ಕ್ರುದ್ಧಃ ಕಾಲಸ್ಯಾಸ್ತ್ರಂ ಸುದಾರುಣಮ್ । | 7.101.7aततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् । | 7.91.6aततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् । | 7.101.7aततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् । | 7.101.7aततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम्। | ||
| 14 | #7bಸಂವರ್ತಂ ನಾಮ ಭರತೋ ಗಂಧರ್ವೇಷ್ವಭ್ಯಚೋದಯತ್ ॥ | 7.101.7bसंवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् ॥ ७ ॥ | 7.91.6bसंवर्तं नाम भरतो गन्धर्वेष्वभ्ययोजयत् ॥7.91.6॥ | 7.101.7bसंवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् ॥ ७ ॥ | 7.101.7bसंवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् ॥ 7.101.7 ॥ | ||
| 15 | #8aತೇ ಬದ್ಧಾಃ ಕಾಲಪಾಶೇನ ಸಂವರ್ತೇನ ವಿದಾರಿತಾಃ । | 7.101.8aते बद्धाः कालपाशेन संवर्तेन विदारिताः । | 7.91.7aते बद्धाः कालपाशेन संवर्तेन विदारिताः । | 7.101.8aते बद्धाः कालपाशेन संवर्तेन विदारिताः । | 7.101.8aते बद्धाः कालपाशेन संवर्तेन विदारिताः। | ||
| 16 | #8bಕ್ಷಣೇನಾಭಿಹತಾಸ್ತೇನ ತಿಸ್ರಃ ಕೋಟ್ಯೋಮಹಾತ್ಮನಾ ॥ | 7.101.8bक्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मना ॥ ८ ॥ | 7.91.7bक्षणेनाभिहतास्तिस्रस्तत्र कोट्यो महात्मना ॥7.91.7॥ | 7.101.8bक्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् ॥ ८ ॥ | 7.101.8bक्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् ॥ 7.101.8 ॥ | ||
| 17 | #9aತದ್ಯುದ್ಧಂ ತಾದೃತಂ ಘೋರಂನ ಸ್ಮರಂತಿ ದಿವೌಕಸಃ । | 7.101.9aतद् युद्धं तादृशं घोरं न स्मरन्ति दिवौकसः । | 7.91.8aतं घातं घोरसंकाशं न स्मरन्ति दिवौकसः । | 7.101.9aतं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः । | 7.101.9aतं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः। | ||
| 18 | #9bನಿಮೇಷಾಂತರಮಾತ್ರೇಣ ತಾದೃಶಾನಾಂ ಮಹಾತ್ಮನಾಮ್ ॥ | 7.101.9bनिमेषान्तरमात्रेण तादृशानां महात्मनाम् ॥ ९ ॥ | 7.91.8bनिमेषान्तरमात्रेण तादृशानां महात्मनाम् ॥7.91.8॥ | 7.101.9bनिमेषान्तरमात्रेण तादृशानां महात्मनाम् ॥ ९ ॥ | 7.101.9bनिमेषान्तरमात्रेण तादृशानां महात्मनाम् ॥ 7.101.9 ॥ | ||
| 19 | #10aಹತೇಷುತೇಷು ಸರ್ವೇಷು ಭರತಃ ಕೇಕಯೀಸುತಃ । | 7.101.10aहतेषु तेषु सर्वेषु भरतः केकयीसुतः । | 7.91.9aहतेषु तेषु वीरेषु भरतः कैकयीसुतः । | 7.101.10aहतेषु तेषु सर्वेषु भरतः केकयीसुतः । | 7.101.10aहतेषु तेषु सर्वेषु भरतः केकयीसुतः। | ||
| 20 | #10bನಿವೇಶಯಾಮಾಸ ತದಾ ಸಮೃದ್ಧೇ ದ್ವೇ ಪುರೋತ್ತಮೇ ॥ | 7.101.10bनिवेशयामास तदा समृद्धे द्वे पुरोत्तमे ॥ १० ॥ | 7.91.9bनिवेशयामास तदा समृद्धे द्वे पुरोत्तमे । | 7.101.10bनिवेशयामास तदा समृद्धे द्वे पुरोत्तमे ॥ १० ॥ | 7.101.10bनिवेशयामास तदा समृद्धे द्वे पुरोत्तमे ॥ 7.101.10 ॥ | ||
| 21 | #11aತಕ್ಷಂ ತಕ್ಷಶಿಲಾಯಾಂ ತು ಪುಷ್ಕಲಂ ಪುಷ್ಕಲಾವತೇ । | 7.101.11aतक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते । | 7.91.9cतक्षं तक्षशिलायां तु पुष्करं पुष्करावतौ ॥7.91.9॥ | 7.101.11aतक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते । | 7.101.11aतक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते। | ||
| 22 | #11bಗಂಧರ್ವದೇಶೇ ರುಚಿರೇ ಗಾಂಧಾರವಿಷಯೇಚ ಸಃ ॥ | 7.101.11bगन्धर्वदेशे रुचिरे गान्धारविषये च सः ॥ ११ ॥ | 7.91.10aगन्धर्वदेशो रुचिरो गान्धारविषयश्च सः । | 7.101.11bगन्धर्वदेशे रुचिरे गान्धारविषये च सः ॥ ११ ॥ | 7.101.11bगन्धर्वदेशे रुचिरे गान्धारविषये च सः ॥ 7.101.11 ॥ | ||
| 23 | 7.91.10bवर्षैः पञ्चभिराकीर्णो विषयैर्नागरैस्तथा ॥7.91.10॥ | ||||||
| 24 | #12aಧನರತ್ನೌಘಸಂಕೀರ್ಣೇ ಕಾನನೈರುಪಶೋಭಿತೇ । | 7.101.12aधनरत्नौघसङ्कीर्णे काननैरुपशोभिते । | 7.91.11aधनरत्नौघसंपूर्णो काननैरुपशोभिते । | 7.101.12aधनरत्नौघसंपूर्णे काननैरुपशोभिते । | 7.101.12aधनरत्नौघसङ्कीर्णे काननैरुपशोभिते। | ||
| 25 | #12bಅನ್ಯೋನ್ಯಸಂಘರ್ಷಕೃತೇ ಸ್ಪರ್ಧಯಾ ಗುಣವಿಸ್ತರೈಃ ॥ | 7.101.12bअन्योन्यसङ्घर्षकृते स्पर्धया गुणविस्तरैः ॥ १२ ॥ | 7.91.11bअन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरे ॥7.91.11॥ | 7.101.12bअन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरैः ॥ १२ ॥ | 7.101.12bअन्योन्यसङ्घर्षकृते स्पर्धया गुणविस्तरैः ॥ 7.101.12 ॥ | ||
| 26 | #13aಉಭೇ ಸುರುಚಿರಪ್ರಖ್ಯೇ ವ್ಯವಹಾರೈರಕಿಲ್ಬಿಷೈಃ । | 7.101.13aउभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः । | 7.91.12aउभे सुरुचिरप्रख्ये व्यवहारैरकल्मषैः । | 7.101.13aउभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः । | 7.101.13aउभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः। | ||
| 27 | #13bಉದ್ಯಾನಯಾನಸಂಪೂರ್ಣೇ ಸುವಿಭಕ್ತಾಂತರಾಪಣೇ ॥ | 7.101.13bउद्यानयानसम्पूर्णे सुविभक्तान्तरापणे ॥ १३ ॥ | 7.91.12bउद्यानयानौघवृते सुविभक्तान्तरापणे ॥7.91.12॥ | 7.101.13bउद्यानयानसंपूर्णे सुविभक्तान्तरापणे ॥ १३ ॥ | 7.101.13bउद्यानयानसम्पूर्णे सुविभक्तान्तरापणे ॥ 7.101.13 ॥ | ||
| 28 | #14aಉಭೇ ಪುರವರೇ ರಮ್ಯೇ ವಿಸ್ತರೈರುಪಶೋಭಿತೇ । | 7.101.14aउभे पुरवरे रम्ये विस्तरैरुपशोभिते । | 7.91.13aउभे पुरवरे रम्ये विस्तरैरुपशोभिते । | 7.101.14aउभे पुरवरे रम्ये विस्तरैरुपशोभिते । | 7.101.14aउभे पुरवरे रम्ये विस्तरैरुपशोभिते। | ||
| 29 | #14bಗೃಹಮುಖ್ಯೈಃಸುರುಚಿರೈರ್ವಿಮಾನೈರ್ಬಹುಭಿರ್ವೃತೇ ॥ | 7.101.14bगृहमुख्यैः सुरुचिरैर्विमानैर्बहुभिर्वृते ॥ १४ ॥ | 7.91.13bगृहमुख्यैः सुरुचिरैर्विमानैः समवर्णिभिः ॥7.91.13॥ | 7.101.14bगृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः ॥ १४ ॥ | 7.101.14bगृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः ॥ 7.101.14 ॥ | ||
| 30 | #15aಶೋಭಿತೇ ಶೋಭನೀಯೈಶ್ಚ ದೇವಾಯತನವಿಸ್ತರೈಃ । | 7.101.15aशोभिते शोभनीयैश्च देवायतनविस्तरैः । | 7.91.14aशोभिते शोभनीयैश्च देवायतनविस्तरैः । | 7.101.15aशोभिते शोभनीयैश्च देवायतनविस्तरैः । | 7.101.15aशोभिते शोभनीयैश्च देवायतनविस्तरैः। | ||
| 31 | #15bತಾಲೈಸ್ತಮಾಲೈಸ್ತಿಲಕೈರ್ಬಕುಲೈರುಪಶೋಭಿತೇ ॥ | 7.101.15bतालैस्तमालैस्तिलकैर्बकुलैरुपशोभिते ॥ १५ ॥ | 7.101.15bतालैस्तमालैस्तिलकैर्बकुलैरुपशोभिते ॥ १५ ॥ | 7.101.15bतालैस्तमालैस्तिलकैर्वकुलैरुपशोभिते ॥ 7.101.15 ॥ | |||
| 32 | #16aನಿವೇಶ್ಯ ಪಂಚಭಿರ್ವರ್ಷೈರ್ಭರತೋ ರಾಘವಾನುಜಃ । | 7.101.16aनिवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः । | 7.91.14bनिवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः । | 7.101.16aनिवेश्य पञ्चभिर्वषैर्भरतो राघवानुजः । | 7.101.16aनिवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः। | ||
| 33 | #16bಪುನರಾಯಾನ್ಮಹಾಬಾಹುರಯೋಧ್ಯಾಂ ಕೇಕಯೀಸುತಃ ॥ | 7.101.16bपुनरायान्महाबाहुरयोध्यां केकयीसुतः ॥ १६ ॥ | 7.91.14cपुनरायान्महाबाहुरयोध्यां कैकयीसुतः ॥7.91.14॥ | 7.101.16bपुनरायान्महाबाहुरयोध्यां केकयीसुतः ॥ १६ ॥ | 7.101.16bपुनरायान्महाबाहुरयोध्यां केकयीसुतः ॥ 7.101.16 ॥ | ||
| 34 | #17aಸೋಽಭಿವಾದ್ಯ ಮಹಾತ್ಮಾನಂ ಸಾಕ್ಷಾದ್ಧರ್ಮಮಿವಾಪರಮ್ । | 7.101.17aसोऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् । | 7.91.15aसोऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् । | 7.101.17aसोभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् । | 7.101.17aसोऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम्। | ||
| 35 | #17bರಾಘವಂ ಭರತಃ ಶ್ರೀಮಾನ್ ಬ್ರಹ್ಮಾಣಮಿವ ವಾಸವಃ ॥ | 7.101.17bराघवं भरतः श्रीमान् ब्रह्माणमिव वासवः ॥ १७ ॥ | 7.91.15bराघवं भरतः श्रीमान्ब्रह्माणमिव वासवः ॥7.91.15॥ | 7.101.17bराघवं भरतः श्रीमान्ब्रह्माणमिव वासवः ॥ १७ ॥ | 7.101.17bराघवं भरतः श्रीमान्ब्रह्माणमिव वासवः ॥ 7.101.17 ॥ | ||
| 36 | #18aಶಶಂಸ ಚಯಥಾವೃತ್ತಂ ಗಂಧರ್ವವಧಮುತ್ತಮಮ್ । | 7.101.18aशशंस च यथावृत्तं गन्धर्ववधमुत्तमम् । | 7.91.16aशशंस च यथावृत्तं गन्धर्ववधमुत्तमम् । | 7.101.18aशशंस च यथावृत्तं गन्धर्ववधमुत्तमम् । | 7.101.18aशशंस च यथावृत्तं गन्धर्ववधमुत्तमम्। | ||
| 37 | #18bನಿವೇಶನಂ ಚ ದೇಶಸ್ಯ ಶ್ರುತ್ವಾ ಪ್ರೀತೋಽಸ್ಯರಾಘವಃ ॥ | 7.101.18bनिवेशनं च देशस्य श्रुत्वा प्रीतोऽस्य राघवः ॥ १८ ॥ | 7.91.16bनिवेशनं च देशस्य श्रुत्वा प्रीतोऽस्य राघवः ॥7.91.16॥ | 7.101.18bनिवेशनं च देशस्य श्रुत्वा प्रीतोस्य राघवः ॥ १८ ॥ | 7.101.18bनिवेशनं च देशस्य श्रुत्वा प्रीतोऽस्य राघवः ॥ 7.101.18 ॥ | ||
| 38 | 7.101.101इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोत्तरशततमः सर्गः ॥ १०१ ॥ |